वाचस्पत्यम्
यष्टि || पु० यज—क्तिन् नि० न सम्प्रसारणम् । १ ध्वजादिदण्डे २ भुजाद्यवलम्बने दण्डे च मेदि० क्तिच् । ३ तन्तौ शब्दर्मा० । ४ हारलतायां ५ भार्ग्यां ६ मधूकायां (यष्टिमधु) स्त्री वा ङीप् । ७ शस्त्रभेदे च मेदि० ।
शब्दकल्पद्रुमः
यष्टिः || पुं, (इज्यते इति । यज् + बाहुलकात् तिः । इति उणादिवृत्तौ उज्ज्वलदत्तः । ४ । १७९ ।)
ध्वजदण्डः । इति विश्वशब्दरत्नावल्यौ ॥ भुज- दण्डः । इति मेदिनी । टे, २६ ॥
शब्दकल्पद्रुमः
यष्टिः || पुं, स्त्री, (यजते सङ्गच्छते । यज् + तिः ।)
तन्तुः । इति शब्दमाला ॥ हारलता । (हारा- वलिः । यथा, रघौ । १३ । ५४ । “क्वचित्प्रभालेपिभिरिन्द्रनीलै- र्मुक्तामयी यष्टिरिवानुविद्धा । अन्यत्र माला सितपङ्कजानां इन्दीवरैरुत्खचितान्तरेव ॥” “यष्टिः हारावलिः ।” इति मल्लिनाथः ॥ * ॥
)
भार्गी । मधुका । शस्त्रभेदः । इति मेदिनी । टे, २६ ॥ शेषस्य पर्य्यायः । दण्डः २ । लगुडः ३ इति हेमचन्द्रः । ३ । ४४९ ॥ तद्दानफलं यथा, वह्निपुराणे । “यष्टिं ये तु प्रयच्छन्ति नेत्रहीने सुदुर्ब्बले । तेषान्तु विपुलः पुंसां सन्तानो मोहवर्ज्जितः ॥” (स्त्री, शाखा । यथा, कुमारे । ६ । २ । “चूतयष्टिरिवाभ्यासे मधौ परभृतोन्मुखी ॥” “चूतयष्टिः चूतशाखा इव ।” इति तत्र मल्लि- नाथः ॥ यष्टिमधु । तत्पर्य्यायः । यथा, “यष्ट्याह्वं मधुकं यष्टिः क्लीतकं मधुयष्टिका । यष्टिमधु स्थलेजाता जलजातिरसा पुरा ॥” इति वैद्यकरत्नमालायाम् ॥)