संस्कृत-शब्दकोशः

यष्टिमधुका यष्टीक

यष्टी

शब्दकल्पद्रुमः

यष्टी || स्त्री (यष्टि + “कृदिकारादक्तिनः ।” इति ङीष् ।)
यष्टिमधु । इति भावप्रकाशः ॥ (यथास्याः पर्य्यायः । “यष्टी यष्ट्याह्वयं प्रोक्तं मधुकं मधुयष्टिका ।” इति गारुडे २०८ अध्यायः ॥ तथास्या गुणाः । भावप्रकाशस्य पूर्ब्बग्वण्डे १ । “यष्टी हिमा गुरुः साद्वी चक्षुष्या बलवर्ण- कृत् । सुस्निग्धा शुक्रला केश्या स्वर्य्या पित्तानिला- स्रजित् । व्रणशोथविषच्छर्द्दितृष्णाग्लानिक्षयापहा ॥” (हारभेदः । तल्लक्षणं यथा, बृहत्संहिता- याम् । ८१ । ३६ । “संयोजिता या मणिना तु मध्ये यष्टीति सा भूषणविद्भिरुक्ता ॥”)



Correction: