संस्कृत-शब्दकोशः

यादोनिवास यानपात्र

यान

वाचस्पत्यम्

यान ||‍ न० या—भावे ल्युट् । १ गमने उपचितशक्तेः राज्ञः मूल- राष्ट्रादिरर्क्षा कृत्वा रिपोरास्कन्दनाय २ गमने च अमरः । करणे ल्युट् । ३ गमनसाधने रथादौ अमरः ।


शब्दकल्पद्रुमः

यानं || क्ली (या + ल्युट् । अर्द्धर्च्चादित्वात् पुंलिङ्ग- मपि ।)
राज्ञां सन्ध्यादिषड्गुणान्तर्गतगुण- विशेषः । तत्तु उपचितशक्तेः कृतमूलराष्ट्र- रक्षस्य शत्रोरास्कन्दनाय यात्रा । इति भरतः ॥ (यथा, देवीभागवते । ५ । ४ । ११ । “यानमप्यधुना नैव कर्त्तव्यं सहसा पुनः ॥” यान्त्यनेनेति । या + ल्युट् ।)
हस्त्यश्वरथदोलादि । तत्पर्य्यायः । वाहनम् २ युग्यम् ३ पत्रम् ४ धोर- णम् ५ । इत्यमरः । २ । ८ । ५८ ॥ विमानम् ६ चङ्कु- रम् ७ यापनम् ८ गतिमित्रकम् ९ । इति शब्द- रत्नावली ॥ * ॥
(यथा, मनुः । ३ । ६४-६५ । “शिल्पेन व्यवहारेण शूद्रापत्यैश्च केवलैः । गोभिरश्वैश्च यानैश्च कृष्या राजोपसेवया ॥ अयाज्ययाजनैश्चैव नास्तिक्येन च कर्म्मणाम् । कुलान्याशु विनश्यन्ति यानि हीनानि मन्त्रतः ॥”)
अथ चतुष्पदयानीद्देशः । “ये ब्रह्मजात्यादिविभेदतोऽमी मया निरुक्ता इह वाजिमुख्याः । दिशानया सर्व्वचतुष्पदानां भेदो विधेयो विदुषादरेण ॥ तथा यथाश्वादिकपोषणेन यानेन वा दोषगुणौ भवेताम् । तथा तथैवान्यचतुष्पदानां प्रकीर्त्तितौ दोषगुणौ बुधेन ॥ वरमयानमपोषणमेव वा वरमिवान्यशरीरमपोषणम् । न खलु दोषयुतं च चतुष्पदं स्तृशति पश्यति शोभनचेतनः ॥ सुराविन्दुर्दूषयति पयोघटशतं यथा । तथा सर्व्वं दूषयति दोषदुष्टश्चतुष्पदः ॥” इति चतुष्पदयानोद्देशः ॥ * ॥
अथ द्बिपदयानोद्देशः । “मानुषैः पक्षिभिर्व्वापि तथान्यैर्द्विपदैरपि । यानं स्याद्द्विपदं नाम तस्य भेदो ह्यनेकधा ॥ सामान्यञ्च विशेषश्च तस्य भेदो द्विधा भवेत् ॥” तत्र सामान्यं यथा, —
“यानं यद्द्विपदाभ्यां सत् तद्दोलादिकमुच्यते । चतुर्भिर्युक्तिसंयुक्तैर्दण्डधातुगुणाम्बरैः । दोलेति कथ्यते तेषां नियमोऽयं प्रदर्श्यते ॥” तत्र समयः । “उपेन्द्रमूलाहिशिवाग्निवर्जं शस्तेन्दुतारातिथियोगलग्ने । वृष्टिक्षमापुत्त्रयमाहवर्जं दोलादिकारोहणमाद्यमिष्टम् ॥ दण्डकाष्ठस्य नियमे नियमश्छत्रदण्डवत् । कनकं रजतं ताम्रं लौहं धातुचतुष्टयम् ॥ चतुर्विधानामुद्दिष्टं ब्रह्मादीनां यथाक्रमम् । सुराणामसुराणाञ्च चातुर्व्वर्ण्यमुदाहृतम् ॥ त्रिहस्तसम्मितो मध्ये तदर्द्धं पार्श्वयोर्द्वयोः । विजया नाम दोलेयं विजयाय महीक्षिताम् ॥ विजया मङ्गला क्रूरा शिवा क्लेशा शुभा क्रमात् । वितस्त्येकैकसंवृद्ध्या दोलाः षट् स्युः सुखान्नदाः ॥ कुम्भश्च पद्मकोषश्च शङ्खः पर्व्वत एव च । चतुर्विधानां दोलासु कल्याणाय चतुष्टयम् ॥ हंसः केकी शुको भृङ्गश्चतुष्टयमिदं क्रमात् । कुम्भाद्यग्रे निधातव्यं चतुर्विधमहीक्षिताम् ॥ अत्रापि वर्त्मविन्यासो विज्ञेयो नवदण्डवत् ॥” भोजस्तु । “गजः प्रस्थानदोलायां रणदोलासु केशरी । मृगो भ्रमणदोलायां क्रीडादोलासु षट्पदः ॥ भुजङ्गमः शत्रुराज्ये वृषभो दानकर्म्मणि । दोलोपर्य्युपरि न्यस्यो बहुभिर्मुनिशासनम् ॥ यद्वक्रदण्डं यानं स्यात् तत् पर्य्यङ्कमिति स्मृतम् । त्रिहस्तसम्मितो यानस्तदर्द्धपरिणाहवान् । पर्य्यङ्कः क्षेमनामायं भर्त्तुः सर्व्वार्थसाधकः ॥ क्षेमो मृत्युर्जयो दुःखश्चत्वारस्ते यथाक्रमम् । वितस्त्येकैकसंवृद्ध्या यथा चाणुर्न सङ्गिनः ॥ मणिधातुगुणादीनां नियमः पूर्ब्बवन्मतः । विशेषमथ वक्ष्यामि पर्य्यङ्कस्य यथाक्रमम् ॥ शुक्तिश्च गजदन्तश्च मृगशृङ्गन्तथैव च । अनूपादिकजातानां पर्य्यङ्केषु न्यसेत् क्रमात् ॥ पद्मशङ्खगजाश्वालिहंसकोकशुकान् क्रमात् । आदित्यादिदशाजानां मणिरूपेण विन्यसेत् ॥ महीन्द्राणां विशेषेण सिंहमानेव शस्यते । निर्म्माणे शुक्तिदण्डाश्च राज्यभोगसुखप्रदाः ॥ तदेवावक्रदण्डन्तु खट्टायानमिति स्मृतम् । अस्यापि पूर्ब्बवन्मानमणिधात्वादिनिर्णयः ॥ विशेषश्चरणोच्छ्रायः परिणाहार्द्धसम्मितः । तदेव चेन्निश्चरणं पीठयानमिति स्मृतम् ॥ तस्य भेदो द्विधा दण्डवक्रावक्रप्रभेदतः । मानादिकं पूर्ब्बतुल्यं विशेषाच्चतुरस्रता ॥ एवमन्यानि मिश्राणि यानानि विविधानि च । सामान्याख्यानि जानीयात् शिल्पिभिर्निर्म्मि- तानि वै ॥ मनोहरत्वं लघुता दृढतेति गुणत्रयम् । प्रोक्तं द्बिपदयानानां सहजं भोजभूभुजा ॥ इति सामान्यद्विपदयानकथनम् ॥” इति युत्तिकल्पतरुः ॥ * ॥
विशेषद्विपदयानन्तु चतुर्दालशब्दे निष्पदयानोद्देशस्तु नौकाशब्दे द्रष्टव्यम् ॥ (फलप्राप्तिहेतौ, त्रि । यथा, ऋग्वेदे । १० । ११० । २ । “तनूनपात् पथ ऋतस्य यानान् मध्वा समञ्जन् स्वदयासुजिह्व ॥” “यानान् फलप्राप्तिहेतून् पथो मार्गान् ।” इति तद्भाष्ये सायणः ॥ या + भावे ल्युट् । गतिः । यथा, वाभटे शारीरस्थाने षष्ठेऽध्याये । “यानं खरोष्ट्रमार्ज्जारकपिशार्द्दलशूकरैः । यस्य प्रतैः शृगालैर्वा स मृत्योर्वर्त्तते मुखे ॥”)



Correction: