वाचस्पत्यम्
याम || पु० यम घञ् । १ समये मेदि० १ प्रहरे च अमरः । “यामो यातस्तथापि नायातः” इति सा० द० ।
शब्दकल्पद्रुमः
यामः || पुं, (याति यायते वा । या + “अर्त्तिस्तु- सुहुमृधृक्षिक्षुभायावापदियक्षिनीभ्यो मन् ।” उणा० १ । १४० । इति मन् । यम् + घञ् वा ।)
दिवारात्र्योश्चतुर्थभागैकभागः । तत्पर्य्यायः । प्रहरः २ । इत्यमरः । १ । ४ । ६ ॥ (यथा, मनौ । ७ । १४५ । “उत्थाय पश्चिमे यामे कृतशौचः समाहितः । हुताग्निर्ब्राह्मणांश्चार्च्च्य प्रविशेत् स शुभां सभाम् ॥”)
संयमः । इति मेदिनी । मे, २४ ॥ (गमनम् । यथा, ऋग्वेदे । १ । ४८ । ४ । “उषो ये ते प्र यामेषु युञ्जते ।” “यामेषु गमनेषु ।” इति तद्भाष्पे सायणः ॥ गमन- साधनः । यथा, ऋग्वेदे । ४ । ५१ । ४ । “कुवित्स देवीः सनयो नवो वा यामो बभूयादुषसो वो अद्य ॥” “यामो गमनसाधनः स रथः ।” इति सायणः ॥ देवगणभेदः । यथा, मार्कण्डेयपुराणे । १५ । १८ । “यज्ञस्य दक्षिणायान्तु पुत्त्रा द्बादश जज्ञिरे । यामा इति समाख्याता देवाः स्वायम्भुवेऽन्तरे ॥”)