शब्दकल्पद्रुमः
युगाद्या || स्त्री (युगस्याद्यादिभूता ।)
युगारम्भ- तिथिः । यथा । “अथ युगाद्याः । तासु च । ‘युगाद्या वर्षवृद्धिश्च सप्तमी पार्व्वतीप्रिया । रवेरुदयमीक्षन्ते न तत्र तिथियुग्मता ॥’ इत्यनेन व्यवस्था ॥ ब्रह्मपुराणे । ‘वैशाखे शुक्लपक्षे तु तृतीयायां कृतं युगम् । कार्त्तिके शुक्लपक्षे तु त्रेताथ नवमेऽहनि ॥ अथ भाद्रपदे कृष्णत्रयोदश्यान्तु द्वापरम् । माघे च पौर्णमास्यां वै घोरं कलियुगं स्मृतम् ॥ युगारम्भास्तु तिथयो युगाद्यास्तेन विश्रुताः ॥’ अत्र वैशाखादयः पौर्णमास्यन्ता एव । ब्रह्म- पुराणे तथैव तिथिकृत्याभिधानात् । मुख्य- वाचित्वे कार्त्तिके नवमेऽहनीत्यनैवेष्टसिद्धौ शुक्ल- पक्ष इति व्यर्थं स्यात् । तेन भाद्रकृष्णत्रयोदशी अश्वयुक्कृष्णपक्षीयेति मैथिलोक्तं निरस्तम् ॥ * ॥
आसां प्रशंसामाह विष्णुपुराणम् । ‘वैशाखमासस्य सिता तृतीया नवम्यसौ कार्त्तिकशुक्लपक्षे । नभस्यमासस्य तमिस्रपक्षे त्रयोदशी पञ्चदशी च माघे ॥ एता युगाद्याः कथिताः पुराणै- रनन्तपुण्यास्तिथयश्चतस्रः । उपप्लवे चन्द्रमसो रवेश्च त्रिष्वष्टकास्वप्ययनद्वये च ॥’ उपप्लवे ग्रहणे । ‘पानीयमप्यत्र तिलैर्व्विमिश्रं दद्यात् पितृभ्यः प्रयतो मनुष्यः । श्राद्धं कृतं तेन समाः सहस्रं रहस्यमेतत् पितरो वदन्ति ॥’ स्नानमधिकृत्य भविष्ये । संवत्सरफलं तत्र नवम्यां कार्त्तिके तथा । मन्वादौ च युगादौ च माषत्रयफलं लभेत् ॥” इति तिथ्यादितत्त्वम् ॥