संस्कृत-शब्दकोशः

युगाद्या युगांशक

युगान्त

वाचस्पत्यम्

युगान्त ||‍ पु० युगानां सत्यादीनामन्तस्तदुपलक्षितो वा कालः । १ प्रलये २ तत्काले च हला० ।


शब्दकल्पद्रुमः

युगान्तः || पुं, (युगानामन्तो यत्र । युगानामन्तो वा ।)
प्रलयः । इति हलायुधः ॥ (यथा, महा- भारते । ५ । ४८ । ६५ । “उद्वर्त्तयन् दस्युसंघान् समेतान् प्रवर्त्तयन् युगमन्यद्युगान्ते । यदा धक्ष्याम्यग्निवत् कौरवेयां- स्तदा तप्ता धार्त्तराष्ट्रः सपुत्त्रः ॥)
युगशेषश्च ॥



Correction: