संस्कृत-शब्दकोशः

युवनाश्वज युवराज

युवन्

वाचस्पत्यम्

युवन् ||‍ त्रि० यु—कनिन् । १ श्रेष्ठे २ निसर्गबलवति मेदि० । “आषोडशाद्भवेद् बालस्तरुणस्तत उच्यते” इत्युक्तवयस्के ३ तरुणे च । “जीवति तु वंश्ये युवा” पा० सूत्रैरुक्ते पौत्रादेरपत्ये ४ चतुर्थादौ बालादिस्वरेषु ५ स्वरभेदे ।


शब्दकल्पद्रुमः

युवा || [न्] त्रि, (यौतीति । यु + “कनिन् युवृषितक्षिराजिधन्विद्युप्रतिदिवः ।” उणा० १ । १५६ । इति कनिन् ।)
तरुणः । (यथा, मनौ । २ । १२० । “ऊर्द्धं प्राणा ह्युत्क्रामन्ति यूनः स्थविर आयति । प्रत्युत्थानाभिवादाभ्यां पुनस्तान् प्रतिपद्यते ॥”)
श्रेष्ठः । निसर्गबलशाली । इति मेदिनी । ने, ११३ ॥


शब्दकल्पद्रुमः

युवा || [न्] पुं, (यौतीति । यु + कनिन् ।)
यौवनावस्थाविशिष्टः । षोडशवर्षात् त्रिंशद्वर्ष- पर्य्यन्तवयस्कः । इति केचित् ॥ षोडशवर्षात् सप्ततिवर्षपर्य्यन्तवयस्कः । यथा, —
“आषोडशाद्भवेद्बालस्तरुणस्तत उच्यते । वृद्धः स्यात् सप्ततेरूर्द्धं वर्षीयान् नवतेः परम् ॥” इति भरतधृतस्मृतिः ॥ (“आषोडशाद्भवेद्बालः पञ्चत्रिंशत् युवा नरः ।” इति हारीते प्रथमे स्थाने पञ्चमेऽध्याये ॥)
तत्पर्य्यायः । वयस्थः २ तरुणः ३ । इत्यमरः । २ । ६ । ४२ ॥ वयःस्थः ४ तलुनः ५ । इति शब्द- रत्नावली ॥ गर्भरूपः ६ वेटकः ७ । इति जटा- धरः ॥



Correction: