संस्कृत-शब्दकोशः

रण्डाश्रमिन् रतकील

रत

वाचस्पत्यम्

रत ||‍ न० रम—भावे क्त । १ रमणे स्त्रीपुंसयोः सङ्गमे मैथुने अमरः । २ गुह्ये च मेदि० । कर्त्तरि क्त । ३ अनुरक्ते त्रि० ।


शब्दकल्पद्रुमः

रतं || क्ली (रमणमिलि । रम् + भावे क्तः ।)
मैथुनम् । इत्यमरः । २ । ७ । ५७ ॥ (यथा, आर्य्यासप्तशत्याम् । ५४९ । “विपरीतमपि रतं ते स्रोतो नद्या इवानुकूल- मिदम् । तटतरुमिव मम हृदयं समूलमपि वेगतो हरति ॥” तत्तु द्बिविधम् । यथा, कामशास्त्रम् । “बाह्यमाभ्यन्तरञ्चेति द्बिविधं रतमुच्यते । तत्राद्यं चुम्बनाश्लेषनखदन्त क्षतादिकम् ॥ द्बितीयं सुरतं साक्षान्नानाकारेण कल्पितम् ॥”)
गुह्यम् । इति मेदिनी । ते, ४९ ॥ अनुरक्ते, त्रि ॥ (यथा, राजतरङ्गिण्याम् । ३ । ५०५ । “तत्तुल्यगुणनिर्व्विण्णा तद्बिपक्षस्तुतौ रता ॥” नियुक्तः । यथा, मनुः । २ । २३५ । “यावत्त्रयस्ते जीवेयुस्तावन्नान्यं समाचरेत् । तेष्वेव नित्यं शुश्रूषां कुर्य्यात् प्रियहिते रतः ॥”)



Correction: