संस्कृत-शब्दकोशः

रतार्थिनी रतिकुहर

रति

वाचस्पत्यम्

रति ||‍ स्त्री रम—क्तिन् । १ रागे २ गुह्ये ३ रमणे ४ तदधिष्ठात्र्यां कामदेवपत्न्यां च मेदि० ।


शब्दकल्पद्रुमः

रतिः || स्त्री (रम्यतेऽनया इति । रम् + क्तिन् ।)
कामदेवपत्नी ॥ (अस्याः नामनिरुक्तिर्यथा, ब्रह्मवैवर्त्ते प्रकृतिखण्डे । ४ । ९ । “मनो मथ्नाति सर्व्वेषां पञ्चबाणेन कामिनीम् । तन्नाम मन्मथस्तेन प्रवदन्ति मनीषिणः ॥ तस्य पुंसो वामपार्श्वात् कामस्य कामिनी वरा । बभूवातीव ललिता सर्व्वेषां मोहकारिणी ॥ रतिर्बभूव सर्व्वेषां तां दृष्ट्वा सस्मितां सतीम् । रतीति तेन तन्नाम प्रवदन्ति मनीषिणः ॥”)
तस्य उत्पत्तिः नामकारणं कामपत्नीत्वञ्च यथा, दक्ष उवाच । “मद्देहजेयं कन्दर्प मद्रूपगुणशालिनी । एनां गृह्णीष्व भार्य्यार्थे भवतः सदृशी गुणैः ॥ एषा तव महातेजाः सर्व्वदा सहचारिणी । भविष्यति यथाकामं धर्म्मतो वशवर्त्तिनी ॥ मार्कण्डेय उवाच । इत्युक्त्वा प्रददौ दक्षो देहस्वेदजलोद्भवाम् । कन्दर्पायाग्रतः कृत्वा नाम कृत्वा रतीति ताम् ॥ तां वीक्ष्य मदनो रामां रत्याख्यां सुमनोहराम् । आत्माशुगेन विद्धोऽसौ मुमोह रतिरञ्जितः ॥” इति कालिकापुराणे ३ अध्यायः ॥ अनुरागः । (यथा, भागवते । १ । २ । ८ । “नोत्पादयेद् यदि रतिं श्रम एव हि केव- लम् ॥”)
रतम् । (यथा, बृहत्संहितायाम् । ७४ । १८ । “कामिनीं प्रथमयौवनान्वितां मन्दवल्गुमृदुपीडितस्वनाम् । उत्स्तनीं समवलम्ब्य या रतिः सा न धातृभवनेऽस्ति मे मतिः ॥”)
गुह्यम् । इति मेदिनी । ते । ४९ ॥ (अप्सरो- विशेषः । यथा, महाभारते । १३ । १९ । ४५ । “विद्युता प्रशमी दान्ता विद्योता रतिरेव च । एताश्चान्याश्च वै बह्व्यः प्रनृत्ताप्सरसः शुभाः ॥” प्रीतिः । यथा, रामायणे । १ । १८ । २४ । “तेषां केतुरिव ज्येष्ठो रामो रतिकरः पितुः ॥” ‘रतिः प्रीतिः ।’ इति तट्टीकायां रामानुजः ॥)
रतिबन्धा यथा, —
“न भवन्ति यदा नार्य्यस्तुष्टा वाद्यरते मताः । नानाविधैस्तथाबन्धै रन्तव्याः कामिभिः स्त्रियः ॥ पद्मासनो नागपाशो लतावेष्टोऽर्द्धसंपुटम् । कुलिशं सुन्दरश्चैव तथा केशर एव च ॥ हिल्लोलो नरसिं होऽपि विपरीतस्तथापरः । क्षुब्धो वै धेनुकश्चैवमुत्कण्ठस्तु ततः परम् । सिंहासनो रतिनागो विद्याधरस्तु षोडशः ॥” इति रतिमञ्जरी ॥ एतेषां लक्षणानि तत्तच्छब्दे द्रष्टव्यानि ॥



Correction: