संस्कृत-शब्दकोशः

रमेश्वर रम्भा

रम्भ

वाचस्पत्यम्

रम्भ ||‍ पु० रभि—अच् मुम् । १ रेणौ २ असुरभेदे च मेदि० । स च महिषासुरजनकः कालिकापु० । ४ कदल्याम् ५ अप्सरोभेदे स्त्री मेदि० ६ वेश्यायां धरणिः । ७ गवां ध्वनौ हेमच० । ८ गौर्य्याञ्च स्त्री शब्दर० । ९ उत्तरस्यां दिशि निघण्टुः ।


शब्दकल्पद्रुमः

रम्भः || पुं, (रम्भते रागमूर्च्छनादिकमनेनेति । रभि + कर्म्मणि घञ् ।)
वेणुः । (रम्मते उद्यम- शीलो भवति निरन्तरमुदरभरणायेति भावः । रभि + अच् ।)
वानरविशेषः । इति मेदिनी । भे, ७ ॥ महिषासुरपिता । यथा, — श्रीऔर्व्व उवाच । “आराधितो महादेवो रम्भेण सुरवैरिणा । चिरेण स च सुप्रीतस्तपसा तस्य शङ्करः ॥ अथ तुष्टो महादेवः प्रत्यक्षं रम्भमुक्तवान् । प्रीतोऽस्मि ते वरं रम्भ वरयस्व यथेप्सितम् ॥ एवमुक्तः प्रत्युवाच रम्भस्तं चन्द्रशेखरम् । अपुत्त्रोऽहं महादेव यदि ते मय्यनुग्रहः ॥ मम जन्मत्रये पुत्त्रो भवान् भवतु शङ्कर । एवमुक्तस्तु दैत्येन प्रत्युवाच वृषध्वजः ॥ भवत्वेतद्वाञ्छितं ते भविष्यामि सुतस्तव । इत्युक्त्वा स महादेवस्तत्रैवान्तरधीयत ॥ रम्भोऽपि यातः स्वस्थानं हर्षोत्फुल्लविलोचनः । पथि गच्छन् स रम्भोऽथ ददृशे महिषीं शुभाम् ॥ त्रिहायणीं चित्रवर्णां सुन्दरीं ऋतुशालिनीम् । स तां दृष्ट्वाथ महिषीं रम्भः कामेन मोहितः ॥ दोर्भ्यां गृहीत्वा च तदा चकार सुरतोत्सवम् । तयोः प्रवृत्ते सुरते सा तदा तस्य तेजसा ॥ दधार महिषी गर्भं तदाभून्महिषासुरः ॥” इति कालिकापुराणे ५९ अध्यायः ॥ (असौ एव जन्मान्तरे रक्तबीजो जातः । एतद्विवरणं यथा, देवीभागवते । ५ । २ । १७-४९ । व्यास उवाच । “दनोः पुत्त्रौ महाराज ! विख्यातौ क्षिति- मण्डले । रम्भश्चैव करम्भश्च द्बावास्तां दानवोत्तमौ ॥ तावपुत्त्रौ महाराज ! पुत्त्रार्थं तेपतुस्तपः । बहून् वर्षगणान् कामं पुण्ये पञ्चनदे जले ॥ करम्भस्तु जले मग्नश्चकार परमं तपः । वृक्षं रसालवटं प्राप्य स रम्भोऽग्निमसेवत ॥ पञ्चाग्निसाधनासक्तः स रम्भस्तु यदाभवत् । ज्ञात्वा शचीपतिर्दुःखमुद्ययौ दानवौ प्रति ॥ गत्वा पञ्चनदे तत्र ग्राहरूपं चकार ह । वासवस्तु करम्भन्तं तदा जग्राह पादयोः ॥ निजघान च तं दुष्टं करम्भं वृत्रसूदनः । भ्रातरं निहतं श्रुत्वा रम्भः कोपं परङ्गतः ॥ स्वशीर्षं पावके होतुमैच्छच्छित्वा करेण ह । केशपाशे गृहीत्वाशु वामेन क्रोधसंयुतः ॥ दक्षिणेन करेणोग्रं गृहीत्वा खड्गमुत्तमम् । छिनत्ति शीर्षं तत्तावद्बह्निना प्रतिबोधितः ॥ उक्तश्च दैत्य मूर्खोऽसि स्वशीर्षं छेत्तुमिच्छसि । आत्महत्यातिदुःसाध्या कथं त्वं कर्त्तुमुद्यतः ॥ वरं वरय भद्रं ते यस्ते मनसि वर्त्तते । मा म्रियस्व मृतेनाद्य किन्ते कार्य्यं भविष्यति ॥ व्यास उवाच । तच्छ्रुत्वा वचनं रम्भः पावकस्य सुभाषितम् । ततोऽब्रवीद्बचो रम्भस्त्यक्त्वा केशकलापकम् ॥ यदि तुष्टोऽसि देवेश ! देहि मे वाञ्छितं वरम् । त्रैलोक्यविजयी पुत्त्रः स्यान्नः परबलार्द्दनः ॥ अजेयः सर्व्वथा स स्याद्देवदामवमानवैः । कामरूपी महावीर्य्यः सर्व्वलोकाभिवन्दितः ॥ पावकस्तं तथेत्याह भविष्यति तवेप्सितम् । पुत्त्रस्तव महाभाग ! मरणाद्विरमाधुना ॥ यस्यां चित्तं तु रम्भ ! त्वं प्रमदायां करिष्यसि । व्यास उवाच । तस्यां पुत्त्रो महाभाग ! भविष्यति बलाधिकः ॥ इत्युक्तो वह्निना रम्भो वचनं चित्तरञ्जनम् । श्रुत्वा प्रणम्य प्रययौ वह्निं तं दानवोत्तमः ॥ यक्षैः परिवृतं स्थानं रमनीयं श्रियान्वितम् । दृष्ट्वा चक्रे तदा भावं महिष्यां दानवोत्तमः ॥ मत्तायां रूपपूर्णायां त्रिहायन्यां च योषितम् । सा समागाच्च तरसा कामयन्ती मुदान्विता ॥ रम्भोऽपि गमनं चक्रे भवितव्यप्रणोदितः । सा तु गभवती जाता महिषी तस्य वीर्य्यतः ॥ तां गृहीत्वाथ पातालं प्रविवेश मनोहरम् । महिषेभ्यश्च तां रक्षन् प्रियामनुमतां किल ॥ कदाचित् महिषश्चान्यः कामार्त्तस्तामुपाद्रवत् । स्वयमागत्य तं हन्तुं दानवः समुपाद्रवत् ॥ स्वरक्षार्थं समागम्य महिषं समताडयत् । सोऽपि तं निजघानाशु शृङ्गाभ्यां काममोहितः ॥ ताडितस्तेन तीक्ष्णाभ्यां शृङ्गाभ्यां हृदये भृशम् । भूमौ पपात तरसा ममार च विमूर्च्छितः ॥ मृते भर्त्तरि सा दीना भयार्त्ता विद्रुता भृशम् । सा वेगात्तं वटं प्राप्य यक्षाणां शरणं गता ॥ पृष्ठतस्तु गतस्तत्र महिषः कामपीडितः । कामयानस्तु तां कामी बलवीर्य्यमदोद्धतः ॥ रुदती सा भृशं दीना दृष्टा यक्षैर्भयातुरा । धावमानञ्च तं वीक्ष्य यक्षास्त्रातुं समाययुः ॥ युद्धं समभवद्घोरं यक्षाणां च हयारिणा । शरेण ताडितस्तूर्णं पपात धरणीतले ॥ मृतं रम्भं समानीय यक्षास्ते परमं प्रियम् । चितायां रोपयामासुस्तस्य देहस्य शुद्धये ॥ महिषी सा पतिं दृष्ट्वा चितायां रोपितं तदा । प्रवेष्टुं सा मतिं चक्रे पतिना सह पावकम् ॥ वार्य्यमाणापि यक्षैः सा प्रविवेश हुताशनम् । ज्वालामालाकुलं साध्वी पतिमादाय वल्लभम् ॥ महिषस्तु चितामध्यात् समुत्तस्थौ महाबलः । रम्भोऽप्यन्यद्बपुः कृत्वा निःसृतः पुत्त्रवत्सलः ॥ रक्तबीजोऽप्यसौ जातो महिषोऽपि महाबलः । अभिषिक्तस्तु राज्येऽसौ हयारिरसुरोत्तमैः ॥ एवं स महिषो जातो रक्तबीजश्च वीर्य्यवान् । अवध्यस्तु सुरैर्द्दैत्यैर्मानवैश्च नृपोत्तम ! ॥”)



Correction: