वाचस्पत्यम्
रसन || न० रस—ल्युट् । १ खादे २ ध्वनौ च करणे ल्युट् । जिह्वायां च मेदि० “पित्तेन दूने रसने सितपि” नैषधम् ।
शब्दकल्पद्रुमः
रसनं || क्ली (रस् + भावे ल्युट् ।)
स्वादनम् । ध्वनिः । इति मेदिनी ॥ (यथा, बृहत्संहिता- याम् । ४६ । ८८ । “कम्पोद्वर्त्तनवैकृत्यं रसनं दरणं क्षितेः ॥”)
शब्दकल्पद्रुमः
रसनं || क्ली स्त्री, (रस्यते रसयत्यनेन वा । रस + करणे ल्युट् ।)
जिह्वा । इति मेदिनी ॥ सा च जलेन्द्रियम् । यथा, —
“नित्यतादि प्रथमवत् किन्तु देहमयोनिजम् । इन्द्रियं रसनं सिन्धुर्हिमादिर्व्विषयो मतः ॥” इति भाषापरिच्छेदः ॥ “प्रथमवदिति पृथिव्या इवेत्यर्थः । तथा हि जलं द्विविधं नित्यमनित्यश्च । परमानुरूपं नित्यं द्व्यणुकादिकं सर्व्वमनित्यम् । अवयवसमवेतञ्चा- नित्यजलमपि त्रिविधम् । शरीरेन्द्रियविषय- भेदात् । किन्तु पृथिवीतोययोर्यो विशेषस्तमाह किन्त्विति । अयोनिजमेवेत्यर्थः । जलीयं शरीरं अयोनिजं वरुणलोके प्रसिद्धमिति । इन्द्रियं रसनं जलीयम् । तथा हि रसनं जलीयं गन्धाद्यव्यञ्जकत्वे सति रसव्यञ्जकत्वात् । शक्तु- रसाभिव्यञ्जकोदकवत् । रसनासन्निकर्षे व्यभि- चारवारणाय द्रव्यत्वं हेतौ देयम् । विषयं दर्शयति सिन्धुर्हिमादिरिति । सिन्धुः समुद्रः हिमं तुषारः । आदिना सरित्कासारकरकादिः सर्व्वो ग्राह्यः ।” इति सिद्भान्तमुक्तावली ॥