वाचस्पत्यम्
रहस्य || त्रि० रहसि भवः यत् । १ गोप्ये “रहस्यमस्याः स महदिति” नैषधम् । २ निर्जनभवे च ३ पाठायां ४ रा- स्नायाञ्च स्त्री राजनि० टाप् ५ नदीभेदे स्त्री मेदि० ।
शब्दकल्पद्रुमः
रहस्यं || त्रि (रहसि भवम् । रहस् + दिगादि- न्वात् यत् । इत्युज्ज्वलः । ४ । २१४ ।)
गोप- नीयम् । रहसि भवम् । इति मेदिनी अमरश्च ॥ रहस्यरोमस्पर्शनिषेधो यथा, —
“न सर्पशस्त्रैः क्रीडेत स्वानि स्वानि न संस्पृशेत् । रोसाणि च रहस्यानि नाशिष्टेन सदा व्रजेत् ॥” इति कौर्म्मे १५ अध्यायः ॥