वाचस्पत्यम्
रागिणी || स्त्री रागोऽस्त्यस्या इनि । १ गीत्यङ्गे स्वरभेदे रागपत्न्यां सङ्गीतदा० । २ विदग्धनार्य्यां जटा० । ३ मेनकाकन्यायां रागवति ४ अनुरक्ते ५ कामुके त्रि० विश्वः रन्ज—धिणुन् । ६ रतियुक्ते च त्रि० । ६ तृणधान्यभेदे मेदि० । एकैकरागे षट् रागिण्य इति षट्सु रागेषु रागिणीभेदाश्च षट्त्रिंशत् यथा “षट्त्रिंशद्रागिणीभेदाः क्रमशः कथिता मया । धामसी १ मालसी २ चैव रामकीरी ३ च सिम्बुडा ४ । आशावरी ५ भैरवी ६ च मालवस्य (१) प्रिया इमाः । वेलावली १ पुरवी २ च कानडा ३ माधवी ४ तथा । कोडा ५ केदा- रिका ६ चापि मल्लार (२) दयिता इमाः । गान्धारी १ सुभगा २ चैव गौरी ३ कौमारिका ४ तथा । वेलोयारी ५ च वैरागी ६ श्रीरागस्य (३) प्रिया इमाः । तुडी १ च पञ्चमी २ चैव ललिता ३ पटमञ्जरी ४ । गुर्जरी ५ च वि- भाषा ६ च वसन्तस्य (४) प्रिया इमाः । मायूरी १ दी- पिका २ चैव देशकारी ३ च पाहिडी ४ । वराडी ५ मोरहाटी ६ च हिल्लोलस्य (५) प्रिया इमाः । नाटिका चाथ भूपाली २ रामकेली ३ गडा ४ तथा । का- मोदा ५ चाथ कल्याणी ६ कर्णाठस्य (६) प्रिया इमाः” । सङ्गीतदा० । तद्गानकालभेदाः तत्पुत्रादयश्च तत्रैव दृश्याः ।
शब्दकल्पद्रुमः
रागिणी || स्त्री (रागोऽस्त्यस्या इति । राग + इनिः । ङीप् ।)
विदग्धा नारी । इति जटा- घरः ॥ मेनकाया ज्येष्ठकन्या । यथा, —
“रागिणी नाम संजाता ज्येष्ठा मेनासुता मुने । शुभाङ्गी पद्मपत्राक्षी नीलकुञ्चितमूर्द्धजा ॥” इति वामनपुराणे ४८ अध्यायः ॥ जयश्रीनाम्नी लक्ष्मीः । इति पुराणम् ॥ षड्- रागाणां पत्नी । इति हलायुधः ॥ सा तु हनूमन्मते भरतमते च त्रिंशत्प्रकारा । सोमे- श्वरमते कल्लिनाथमते च षट्त्रिंशत्प्रकारा ॥ आसां विवरणं रागशब्दे द्रष्टव्यम् ॥