वाचस्पत्यम्
राजि(जी) || स्त्री राज—इन् वा ङीप् । १ श्रेण्याम् पङ्क्तौ २ रेखायां च मेदि० । खार्थे क । रेखायाम् । राजते राज—ण्वुल् । राजिका राजसर्षपे स्त्री मेदि० ।
शब्दकल्पद्रुमः
राजिः || स्त्री (राजते इति । राज + “वसिवपि- यजिराजीति ।” उणा० ४ । १२४ । इति इञ् ।)
श्रेणी । (यथा, अर्य्यासप्तशत्याम् । ६९३ । “उल्लसति रोमराजिः स्तनशम्भोर्गरललेखेव ॥”)
रेखा । इति मेदिनी । जे, १४ ॥ (यथा, महा- भारते । ७ । २२ । ६२ । “कलायपुष्पवर्णास्तु श्वेतलोहितराजयः । रथसेनं हयश्रेष्ठाः समूहुर्युद्धदुर्म्मदम् ॥” पुं, आयुपुत्त्रविशेषः । स तु ऐलपौत्त्रः । यथा, महाभारते । १ । ७५ । २५ । “नहुषं वृद्धशर्म्माणं राजिं गयमनेनसम् । स्वर्भानवी सुतानेतानायोः पुत्त्रान् प्रचक्षते ॥”)