संस्कृत-शब्दकोशः

रात्र्यट राद्ध

रात्र्यन्ध

वाचस्पत्यम्

रात्र्यन्ध ||‍ त्रि० रात्राबन्धः दृष्टिक्षययुक्त । १ निशादृष्टिशून्ये णाकादौ । २ रात्रौ रोगकृतदृष्टिशून्ये (रातकाणा) च ।


शब्दकल्पद्रुमः

रात्र्यन्धः || त्रि (रात्रौ अन्धः ।)
रात्रौ दृष्टि- हीनो नरः । रातिकाणा इति भाषा ॥ रात्रौ स्वाभाविकदृष्टिहीनपक्षी । स तु काकादिः । यथा, मार्कण्डेयपुराणे देवीमाहात्म्यम् । “दिवान्धाः प्राणिनः केचिद्रात्रावन्धास्तथापरे । केचिद्दिवा तथा रात्रौ प्राणिनस्तुल्यदृष्टयः ॥” तन्नाशकौषधं यथा, —
“देवदारोश्च वै चूर्णं अजामूत्रेण भावयेत् । एकविंशति वै वारमक्षिणी तेन चाञ्जयेत् । रात्र्यन्धता पटलता नश्येदिति विनिश्चयः ॥” इति गारुडे १८९ अध्यायः ॥



Correction: