शब्दकल्पद्रुमः
रेवटं || क्ली दक्षिणावर्त्तशङ्खम् । इत्यजयपालः ॥
रेवटः || पुं, (रवते इति । रेव + बाहुलकात् अटच् ।) शूकरः । वेणुः । वातुलः । विषवैद्यः । इत्यजयपालः ॥