वाचस्पत्यम्
रौद्र || न० रुद्रो देवतास्य अण् । १ सूर्य्यतापे, २ उग्ररसे च । ३ तद्वति मेदि० ४ भीषणे च त्रि० ५ रसभेदे अमरः । “रौद्रः क्रोधस्थायिभावो रक्तो रुद्राधिदैवतः । आल- म्बनमरिस्तत्र तच्चेष्टोद्दीपनं मतम् । मुष्टिप्रहारपतन- विकतच्छेदावदारणैश्चैव । संग्रामसम्भ्रमाद्यैरस्योद्वीप्ति- र्भवेत् प्रौढा । भ्रूविभङ्गोष्ठनिर्दंशबाहुस्फोटन- तर्जनाः । आत्मावदानकथनमायुधोत्क्षेपणानि च । अनुभावास्तक्षाक्षेपक्रूरसन्दर्शनादयः । उग्रतावेगरो- माञ्चस्वेदवेपथवो मदः । मोहामर्षादयश्चात्र भावाः स्युर्व्यभिचारिखः” सा० द० । ६५ दुर्शायां ७ रुद्रजटावृक्षे च स्त्री ङीप् मेदि० ।
शब्दकल्पद्रुमः
रौद्रं || क्ली (रुद्रस्येदम् । रुद्र + अण् ।)
शृङ्गा- राद्यष्टरसान्तर्गतशेषरसः । तत्पर्य्यायः । उग्रम् २ । इत्यमरः ॥ द्वे क्रोधस्याश्रये । रुद्रो देवता यस्य रौद्रम् । यदाह भरतः । “शृङ्गारो विष्णुदेवः स्याद्धासः प्रमथदैवतः । करुणो यमदेवः स्याद्रौद्रो रुद्राधिदैवतः ॥” इति द्वे क्रोधस्याश्रये । उच्यति क्रुधा समवैति उग्रः । उचिर्य समवायने नाम्नीति रक् निपातनाच्चस्य गः । सर्व्वाभिभाविता रौद्रः । यथा, रावण- चरितादि । एषु वीभत्सरौद्रे क्लीवे रूपभेदात् अन्ये पुंसि वीभत्सरौद्रौ चेति पुंलिङ्गपाठ इह युक्तः । इति भरतः ॥ * ॥
अपि च । अथ रौद्रः । “रौद्रः क्रोधस्थायिभावौ रक्तो रुद्राधिदैवतः । आलम्बनं रिपुस्तत्र तच्चेष्टोद्दीपनं मतम् ॥ सुष्टिप्रहारपातनविकृतच्छेदावदारणैश्चैव । संग्रामसंभ्रमाद्यैरस्योद्दीप्तिर्भवेत् प्रौढा ॥ भ्रूविभङ्गौष्ठनिर्दंशबाहुस्फोटनतर्जनाः । आत्मावदानकथनमायुधोत्क्षेपणानि च । अनुभावास्तथा क्षेपक्रूरसन्दर्शनादयः ॥ उग्रतावेगरोमाञ्चस्वेदवेपथवो मदः । मोहाहर्षादयश्चात्र भावाः स्युर्व्यभिचारिणः ॥” यथा, —
“कृतमनुमतं दृष्टं वा यैरिदं गुरु पातकं मनुजपशुभिर्निर्मर्य्यादैर्भवद्भिरुदायुधैः । नरकरिपुणा सार्द्धं तेषां सभीमकिरीटिना- मयमहमसृङ्मेदोमांसैः करोमि दिशां वलिम् ॥” अस्य युद्धवीराद्भेदमाह । “रक्तास्यनेत्रता चात्र भेदिनी युद्धवीरतः ॥” इति साहित्यदर्पणे ३ परिच्छेदः ॥
शब्दकल्पद्रुमः
रौद्रः || त्रि (रुद्र + अण् ।)
तीव्रः । (यथा, रुग्वि- निश्चयव्याख्याने विजयरक्षितेन हरिवंशोक्त- ज्वरवर्णनवचनमुक्तम् । “ज्वरस्त्रिपादस्त्रिशिराः षड्भुजो नवलोचनः । भस्मप्रहरणो रौद्रः कालान्तकयमोपमः ॥”)
भीषणः । इति मेदिनी । रे, ८० ॥ (यथा, महा- भारते । २ । ६४ । ५० । “तस्य ते तद्वचः श्रुत्वा रौद्रं लोमप्रहर्षणम् । प्रचक्रुर्बहुलां पूजां कुत्सन्तो धृतराष्ट्रजम् ॥”)
रुद्रसम्बन्धिनि च ॥
शब्दकल्पद्रुमः
रौद्रः || पुं, (रुद्रस्यायमिति । रुद्र + अण् ।)
सूर्य्य- तेजः । तत्पर्य्यायः । घर्म्मः २ । इति मेदिनी । रे, ८० ॥ प्रकाशः ३ द्योतः ४ आतपः ५ । इत्यमरः ॥ तस्य गुणाः । “आतपः कटुको रूक्षः स्वेदमूर्च्छातृषावहः । दाहवैवर्ण्यजननो नेत्ररोगप्रकोपणः ॥” इति राजवल्लभः ॥ * ॥
सप्तरौद्रा यथा, —
“जठरः पिङ्गलो रौद्रो घोराख्यः कालसंज्ञितः । अग्निनामा हतो रौद्रः सप्त रौद्राः प्रकी- र्त्तिताः ॥” ग्रन्थान्तरे सप्तमो रौद्रः प्राणदाहः ॥ तेषां फलानि यथा, —
“पिङ्गलो रौद्रनामा च कालरूपः प्रजाक्षयम् । स्पर्शने बहुरोगः स्यात् सर्व्वजीवसमुद्भवः ॥ जठरो रौद्रनामा च घोरधूम्रञ्च कारयेत् । व्रणादिपित्तरोगञ्च नानाक्लेशकरो नृणाम् ॥ अग्निर्नाम्ना यदा वर्षे रौद्रो भवति नान्यथा । उत्तापेन क्षितिं शुष्येत् नराणां रोगदो भवेत् । रौद्रनामा महारौद्रो यत्राब्दे च भवेद्ध्रुवम् । चित्तोद्वेगं व्रणं कुर्य्यान्नानारोगसमन्वितम् ॥ घोरनामा महारौद्रो घोरधूम्रञ्च कारयेत् । उत्तापेन सदा दग्धं नानारोगसमन्वितम् ॥ कालनामा महारौव्र उत्तापे पीडनं सदा । नानारोगसमायुक्तं व्रणादिकण्डुकं भवेत् ॥” इति ज्योतिषम् ॥ रसविशेषः । इति मेदिनी । रे, ८० ॥ तद्विवरणं क्लीवलिङ्गरौद्रशब्दे द्रष्टव्यम् । हेमन्त ऋतुः । इति हेमचन्द्रः ॥ यमः । इति धरणिः ॥ (कार्त्ति- केयः । यथा, महाभारते । १ । १३८ । १३ । “आग्नेयः कृत्तिकापुत्त्रो रौद्रो गाङ्गेय इत्यपि । श्रूयते भगवान् देवः सर्व्वदेवमयो गुहः ॥”)