संस्कृत-शब्दकोशः

रौरव रौहिणेय

रौहिण

वाचस्पत्यम्

रौहिण ||‍ पु० रुह—इनन् स्वार्थे अण् । १ चन्दनवृक्षे त्रिका० । २ रोहिणशब्दार्थे च ।


शब्दकल्पद्रुमः

रौहिणं || क्ली (रोहिणमेव । स्वार्थे अण् ।)
दिनस्य नवममुहूर्त्तः । यथा । अत्र पूर्ब्बाह्णे श्राद्धमभिधाय रौहिणन्तु न लङ्घयेदित्यभि- धानेन पूर्ब्बाह्णश्राद्धस्य सङ्गवात् परो रौहिण- पर्य्यन्तगौणपूर्ब्बाह्णकालः प्रतीयते । तेन रौहिणं पूर्ब्बाह्णश्राद्धस्य गौणकालत्वेनोत्तरावधिः अप- राह्णश्राद्धस्य पूर्ब्बावधिरित्यवगम्यते ततश्च पूर्ब्बदिने सङ्गवात् परं रौहिणपर्य्यन्तं तिथे- र्लाभे परदिने मुहूर्त्तत्रयमात्रे तत्तिथिलाभे पूर्ब्बदिने श्राद्धम् । रौहिणान्तरूपगौणपूर्ब्बाह्ण- लाभात् न परदिने तथात्वाभावात् । उभय- दिने सङ्गवलाभे परदिने शुक्लपक्षे तिथिर्ग्राह्या इति वचनात् । रौहिणन्तु दिवसस्य नवम मुहूर्त्तस्तस्य ज्योतिषोक्तरोहिणीदैवतत्वात् रौहिणत्वमिति । इति श्राद्धतत्त्वम् ॥


शब्दकल्पद्रुमः

रौहिणः || पुं, (रुह् + इनन् । स्वार्थे अण् ।)
चन्दनवृक्षः । इति त्रिकाण्डशेषः ॥



Correction: