संस्कृत-शब्दकोशः

रौहिण रौहिष

रौहिणेय

वाचस्पत्यम्

रौहिणेय ||‍ पु० रोहिण्यां भवः ढक् । १ बुधग्रहे, २ बलरामे, च अमरः । २ मरकतमणौ ग० राजनि० ४ गोवत्से पुंस्त्री मेदि० ५ शनैश्चरे पु० भगदैवतशव्दे ४६३१ पृ० दृश्यम् ।


शब्दकल्पद्रुमः

रौहिणेयं || क्ली मरकतमणिः । इति राज- निर्घण्टः ॥


शब्दकल्पद्रुमः

रौहिणेयः || त्रि (रोहिण्या अपत्यमिति । रोहिणी + ढक् ।)
गोवत्सः । इति मेदिनी । ये, १२७ ॥


शब्दकल्पद्रुमः

रौहिणेयः || पुं, (रोहिण्या अपत्यमिति । रोहिणी + “शुभ्रादिभ्यश्च ।” ४ । १ । १२३ । इति ढक् ।)
बलदेवः । (यथा, महाभारते । १ । १९२ । १९ । “तत्रोपविष्टं पृथुदीर्घबाहुं ददर्श कृष्णः सहरौहिणेयः ॥”)
बुधग्रहः । इत्यमरः ॥ (पुरुषोत्तमस्थतीर्थपञ्च- कांन्यतमः । यथा, तीर्थतत्त्वे । “मार्कण्डेये वटे कृष्णे रौहिणेये महोदधौ । इन्द्रद्युम्नसरः स्नात्वा पुनर्जन्म न विद्यते ॥”)



Correction: