शब्दकल्पद्रुमः
लक्षणा || स्त्री (लक्षण + टाप् ।)
सारसी । इति मेदिनी । णे, ७५ ॥ हंसी । इति सिद्धान्त- कौमुद्यामुणादिवृत्तिः ॥ (अप्सरोविशेषः । यथा, महाभारते । १ । १२३ । ५९ । “अम्बिका लक्षणा क्षेमा देवी रम्भा मनोरमा ॥”)
शक्यसम्बन्धः । यथा, —
“लक्षणा शक्यसम्बन्धस्तात्पर्य्यानुपपत्तितः ॥” इति भाषापरिच्छेदः ॥ गङ्गायां घोष इत्यादौ गङ्गापदस्य शक्यार्थे प्रवाहरूपे घोषस्यान्वयानुपपत्तिस्तात्पर्य्यानुप- पत्तिर्व्वा यत्र प्रतिसन्धीयते तत्र लक्षणया तीरस्य बोधः । सा च शक्यसम्बन्धरूपा । तथा हि प्रवाहरूपशक्यार्थसम्बन्धस्य तीरे गृही- तत्वात्तीरस्य स्मरणं ततः शाब्दबोधः । इति सिद्धान्तमुक्तावली ॥ * ॥
अपि च । “जहत्स्वार्थाजहत्स्वार्थानिरूढाधुनिका- दिकाः । लक्षणा विविधास्ताभिर्लक्षकं स्यादनेकधा ॥” काचिल्लक्षणा शक्यावृत्तिरूपेण बोधकतया जहत्स्वार्थेत्युच्यते । यथा तीरत्वादिना गङ्गादि- पदस्य । काचिच्छक्यलक्षोभयवृत्तिना शक्य- वृत्तिनैव वा रूपेणानुभावकत्वादजहत्स्वार्था । यथा द्रव्यत्वादिना नीलघटत्वादिना च घटादि- पदस्य । काचिल्लक्षतावच्छेदकीभूततत्तद्रूपेण पूर्व्वपूर्व्वं प्रत्यायकत्वान्निरूढा । यथा, आरु- ण्यादिप्रकारेण तदाश्रयद्रव्यानुभावकत्वादरु- णादिपदस्य । काचिच्च पूर्व्वपूर्व्वं ताद्रूप्येणा- प्रत्यायकत्वादाधुनिकी । यथा घटत्वादिना पटादिपदस्य । आदिना शक्यसदृशत्वप्रकारेण बोधकतया गौणीत्युपगृह्यते । यथा अग्नि- र्माणवक इत्यादावग्निसदृशत्वादिना अग्न्यादि- पदस्य । इति शब्दशक्तिप्रकाशिका ॥ * ॥
अन्यच्च । “मुख्यार्थवाधे तद्युक्तो ययान्योऽर्थः प्रतीयते । रूढेःप्रयोजनाद्वासौ लक्षणाशक्तिरर्पिता ॥” १ ॥ कलिङ्गः साहसिक इत्यादौ कलिङ्गादिशब्दो देशविशेषादिरूपे स्वार्थे असम्भवन् यया शब्दस्य शक्त्या स्वसंयुक्तान् पुरुषादीन् प्रत्याययति । यथा च गङ्गायां घोष इत्यादौ गङ्गादिशब्दो जलमयाद्यर्थवाचकत्वात् प्रकृतेऽसम्भवन् स्वस्य सामीप्यादिसम्बद्धसम्बन्धिनं तटादिं बोधयति । सा शब्दस्यार्पिता स्वाभाविकेतरा ईश्वरानुद्- द्भाविता वा शक्तिर्लक्षणा नाम । पूर्व्वत्र हेतू रूढिः प्रसिद्धिरेव । उत्तरत्र गङ्गातटे घोष इति प्रतिपादनादलभ्यस्य शीतत्वपावनत्वाति- शयस्य बोधनरूपं प्रयोजनम् । हेतुं विनापि यस्य कस्यचित् सम्बन्धिनो लक्षणेऽतिप्रसङ्गः स्यादत उक्तं रूढेः प्रयोजनाद्बेति ॥ * ॥
तद्भेदानाह । “मुख्यार्थस्येतराक्षेपो वाक्यार्थेऽन्वयसिद्धये । स्यादात्मनोऽप्युपादानादेषोपादानलक्षणा ॥” २ ॥ रूढावुपादानलक्षणा यथा । श्वेतो यावति । प्रयोजने यथा । कुन्ताः प्रविशन्ति । अन- योर्हि श्वेतादिभिः कुन्तादिभिश्च अचेतन- तया केवलैर्धावनप्रवेशनक्रिययोः कर्त्तृतया- न्वयमलभमानैरेतत्सिद्धये आत्मसम्बन्धिनो ऽश्वादयः पुरुषादयश्च आक्षिप्यन्ते । पूर्ब्बत्र प्रयोजनाभावाद्रूढिः । उत्तरत्रं कुन्तादीना- मतिगहनत्वं प्रयोजनम् । अत्र च मुख्यार्थ- स्यात्मनोऽप्युपादानम् । लक्षणलक्षणायान्तु परस्यैवोपलक्षणमित्यनयोर्भेदः । इयमेवाजहत्- स्वार्थेत्युच्यते ॥ * ॥
“अर्पणं स्वस्य वाक्यार्थे परस्यान्वयसिद्धये । उपलक्षणहेतुत्वादेषा लक्षणलक्षणा ॥” ३ ॥ रूढिप्रयोजनयोर्लक्षणलक्षणा यथा । कलिङ्गः साहसिकः गङ्गायां घोष इति च । अनयोर्हि पुरुषतटयोर्वाक्यार्थेऽन्वयसिद्धये कलिङ्गगङ्गा- शब्दावात्मानमर्पयतः । यथा वा । “उपकृतं बहु तत्र किमुच्यते सुजनता प्रथिता भवता परम् । विदधदीदृशमेव सदा सखे सुखितमास्म ततः शरदां शतम् ॥” अत्रानुपकारादीनां वाक्यार्थेऽन्वयसिद्धये उप- कृतादयः शब्दाः आत्मानमर्पयन्ति । अत्राप- कारिणं प्रति उपकारादिप्रतिपादनान्मुख्यार्थ- वाधः वैपरीत्यलक्षणः सम्बन्धः फलमपकारा- द्यतिशयः । इत्यमेव जहत्स्वार्थेत्युच्यते ॥ * ॥
“आरोपाध्यवसानाभ्यां प्रत्येकं ता अपि द्विधा ।” ताः पूर्ब्बोक्ताश्चतुर्भेदा लक्षणाः । “विषयस्यानिगीर्णस्यान्यतादात्म्यप्रतीतिकृत् । सारोपा स्यान्निगीर्णस्य मता साध्यवसा- निका ॥ ४ ॥ रूढावुपादानलक्षणा सारोपा यथा । अश्वः श्वेतो धावति अत्र हि श्वेतगुणवान् अश्वोऽनि- गीर्णस्वरूपः स्वसमवेतश्वेतगुणतादात्म्येन प्रती- यते । प्रयोजने यथा एते कुन्ताः प्रविशन्ति अत्र सर्व्वनाम्ना कुन्तधारिपुरुषनिर्द्देशात् सारोपात्वम् । रूढौ लक्षणलक्षणा यथा । कलिङ्गः पुरुषो युध्यति । अत्र पुरुषकलिङ्गयो- राधार्य्याधारतासम्बन्धः । प्रयोजने यथा आयु- र्घृतम् । अत्रायुष्कारणमपि घृतं कार्य्यकारण- भावसम्बन्धसम्बन्ध्यायुस्तादात्म्येन प्रतीयते अन्य- वैलक्षण्येनाव्यभिचारेणायुष्करणं प्रयोजनम् । यथा च राजकीये पुरुषे गच्छति राजासौ गच्छति इत्यत्र स्वस्वामिभावलक्षणः सम्बन्धः । यथा वा अग्रमात्रेऽवयवे हस्तोऽयम् । अत्राव- यवावयविभावलक्षणः सम्बन्धः । ब्राह्मणेऽपि तक्षासौ अत्र तात्कर्म्म्यलक्षणः सम्बन्धः । इन्द्रा- र्थासु स्थूणासु अमी इन्द्राः अत्र तादर्थ्यरूपः । एवमन्यत्रापि । निगीर्णस्य पुनर्विषयस्यान्यता- दात्म्यप्रतीतिकृत् साध्यवसाना । अस्याश्चतुर्षु भेदेषु पूर्ब्बोदाहरणान्येव ॥ * ॥
“सादृश्येतरसम्बन्धाः शुद्धास्ताः सकला अपि । सादृश्यात्तु मता गौण्यस्तेन षोडश भेदिताः ॥” ५ ॥ ताः पूर्ब्बोक्ता अष्टभेदा लक्षणाः सादृश्येतर- सम्बन्धाः कार्य्यकारणभावादयः । अत्र शुद्धानां पूर्ब्बोदाहरणान्येव । रूढावुपादानलक्षणा सारोपा गौणी यथा । एतानि तैलानि हेमन्ते सुखानि अत्र तैलशब्दस्तिलभवस्नेहरूपं मुख्यार्थमुपादायैव सार्षपादिस्नेहेषु वर्त्तते । प्रयोजने यथा राजकुमारेषु तत्सदृशेषु च गच्छत्सु एते राजकुमारा गच्छन्ति । रूढा वुपादानलक्षणा साध्यवसाना गौणी यथा तैलानि हेमन्ते सुखानि । प्रयोजने यथा राजकुमारा गच्छन्ति । रूढौ लक्षणलक्षणा सारोपा गौणी यथा राजा गौडेन्द्रः कण्टकं शोधयति । प्रयोजने गौर्व्वाहिकः । रूढौ लक्षणलक्षणा साध्यवसाना गौणी यथा कण्टकं शोधयति । प्रयोजने यथा गौर्ज्ज- ल्पति ॥ * ॥
“व्यङ्गस्य गूढागूढत्वाद्द्बिधा स्युः फल- लक्षणाः ॥” ६ ॥ प्रयोजने या अष्टभेदा लक्षणा दर्शितास्ताः प्रयोजनरूपव्यङ्ग्यस्य गूढागूढतया प्रत्येकं द्विधा भूत्वा षोडशभेदाः । तत्र गूढः वाक्यार्थभावना- परिपक्वबुद्धिविभवमात्रवेद्यः । यथा उपकृतं बहु तत्रेत्यादि । अगूढोऽतिस्पष्टतया सर्व्वजन- वेद्यः । यथा उपदिशति कामिनीनां यौवन- मद एव ललितानि । अत्रोअप्दिशतीत्यनेन आविष्करोतीति लक्ष्यते आविष्कारातिशय- श्चाभिधेयवत् स्फुटं प्रतीयते ॥ * ॥
“धर्म्मिधर्म्मगतत्वेन फलस्यैता अपि द्बिधा ॥” ७ ॥ एता अनन्तरोक्ताः षोडशभेदा लक्षणाः फलस्य धर्म्मगतत्वेन धर्म्मिगतत्वेन च प्रत्येकं द्विधा भूत्वा द्बात्रिंशद्भेदाः । क्रमेणोदाहरति । “स्निग्धश्यामलकान्तिलिप्तवियतो वेल्लद्बलाका घनाः वाताः शीकरिणः पयोदसुहृदामानन्दकेकाः कलाः । कामं सन्तु दृढं कठोरहृदयो रामोऽस्मि सर्व्वं सहे वैदेही तु कथं भविष्यति ह हा हा देवि ! धीरा भव ॥” अत्रात्यन्तदुःखसहिष्णुरूपे रामे धर्म्मिणि लक्ष्ये तस्यैवातिशयः फलम् । गङ्गायां घोष इत्यत्र तटादिषु लक्ष्येषु शीतत्वपावनत्वादिरूपधर्म्म- स्यातिशयः फलम् ॥ * ॥
“तदेवं लक्षणाभेदाश्चत्वारिंशन्मता बुधैः ॥” रूढावष्टौ फले द्वात्रिंशदिति चत्वारिंशल्लक्षणा- भेदाः ॥ * ॥
किञ्च । “पदवाक्यगतत्वेन प्रत्येकं ता अपि द्विधा ।” ८ । ता अनन्तरोक्ताः । अत्र पदगतत्वेन यथा गङ्गायां घोषः । वाक्यगतत्वेन यया उपकृतं बहु तत्रेति । एवमशीतिप्रकारा लक्षणा । इति साहित्यदर्पणम् ॥