संस्कृत-शब्दकोशः

लक्षक लक्षणा

लक्षण

वाचस्पत्यम्

लक्षण ||‍ न० लक्ष्यतेऽनेन लक्ष—करणे ल्युट १ इतरभेदानु- मापके चिह्ने “ऋषयाऽपि पदार्थानां नान्त यान्ति पृ- थकत्वतः । लक्षणेन तु सिद्धानामन्तं यान्ति विपश्चितः” । यथा पृथिव्या गन्धो लक्षणं स हि पृथिवीं परस्मात् भिन्नतया अनुमापयति । तच्च द्विविधम् “स्वरूप तटस्थं द्विधा लक्षणं स्यात् स्वरूपे प्रविष्टं स्वरूपाद्विभिन्नम्” इ- त्युक्तेः स्वरूपलक्षणं तटस्थलक्षणं च यथा आकाशो विलम् सच्चिदानन्दो ब्रह्मेति स्वरूपलक्षणम् । काकवत् गृहम् जगज्जन्मादिकर्तृ ब्रह्मेति तटस्थलक्षणम् । २ स्वरूपे यथा घटलक्षणं वस्तु ३ नाम्नि व्यवहारोपयोगिनि ४ चिह्ने च मेदि० । कर्त्तरि ल्युट् ५ स्वरूपप्रतिप दके “नोदनालक्ष- णार्थो धर्मः” इति जैमिनिसूत्रम् नोदना विधिवाक्यमेव लक्षणं स्वरूपज्ञापिका यस्य तादृशोऽर्थः धर्म इति तदर्थः । ६ शब्दसाधुताप्रतिपादके व्याकरणादिसूत्रे च न० “लक्षणं त्वनभिज्ञानाम्” अमरः । कर्मणि ल्युट् । ७ प्रतिपाद्ये यथा “इत्थं द्वादशलक्षण्येति” माधवीयन्याय मासा द्वादशानां लक्षणानां प्रतिपाद्यविषयाणां समा- हारः इति तदर्थः । लक्ष युच् । शब्दनिष्ठे वाच्यार्थ- संव र्थिबोधकतारूपे “मुख्यार्थबाधे तद्योगे ययाव्योऽर्थः प्रतीयते । रूढेः प्रथोजनाद्वापि लक्षणा शक्तिरर्पिते- त्युक्ते ८ वृत्तिभेद स्त्री । यथा गङ्गायां घोषः प्रतिबसती- त्यादौ गङ्गाशब्दस्य जलप्रवाहरूपे स्वार्थेऽन्वयासम्भवात तत्सम्बद्धतीरादिबोधकता । ९ लक्ष्मणे रामानुजे पु० १० सारसपक्षिणि पुंस्त्री० तत् स्त्रियां राजनि० स्त्री टाप् । लक्षणाभेदादिकं शब्दशक्तिप्रकाशिकायामुक्तं यथा “जहत्स्वार्थाजहत्स्वार्थानिरूढाधुनिकादिकाः । लक्षणा विविधास्ताभिर्लक्षकं स्यादनेकधा” । काचिल्लक्षणा शक्या- वृत्तिरूपेण बोधकतया जहत्स्वार्थेत्युच्यते यथा तीर- त्वादिना शङ्गादिपदस्य । काचिच्छक्यलक्ष्योभयवृत्तिना शक्यवृत्तिनैव वा रूपेणानुभावकत्वादजहत्स्वार्था यथा दूव्यत्वादिना नीलघटत्वादिना च घटपदस्य । काचि- ल्लक्ष्यतावच्छेदकीभूततत्तद्रूपेण पूर्वपूर्वप्रत्यायकत्वात् निरूढा यथा आरुण्यादिप्रकारण तदाश्रयद्रव्यानुभाव- कत्वादरुणादिपदस्य । काचिच्च पूर्वपूर्वं ताद्रूप्येणा- प्रत्यायकत्वादाधुनिकी यथा घटत्वादिना पटादिपदस्य । आदिना शक्यसदृशत्वप्रकारेण बोधकतया गौण्युप- गृह्यते यथा अग्निर्माणवक इत्यादावग्निसदृशत्वादिना अग्न्यादिपदस्य । तदेवं विवधलक्षणावत्त्वाल्लक्षकं ना- मापि जहत्स्वार्थादिभेदादनेकविधमित्यर्थः । स्वादेतत् यदि तीरादिलक्षकतया गङ्गादिपदस्य ज्ञानं तीरा- द्यनुभवे भवेद्धेतुर्भवेदप्युक्तक्रमेण लक्षकानां विभामः नत्वेतदस्ति तीराद्यन्वयबोधं प्रति तीरादिशक्तत्वेनैव पद- ज्ञानस्य लाघवेन हेतुतया लक्षकाणामननुभावकत्वात् गुरूणामग्नौ शैत्य स्पृशेदित्यादौ शक्येन दहनादिनेव गङ्गायां घोष इत्यादौ लक्षितेन तीरादिना सार्द्धमगृ- हीतासंसर्गकस्यैव सप्तम्यर्थाधेयत्वादेरन्वयबोधप्रविष्टत्वा- दिति चेन्न प्रकृत्यर्थावच्छिन्नस्यैव प्रत्ययार्थस्य धर्म्यन्तरेऽ- न्वयबुद्धेर्व्युत्पन्नतया तीराद्यविशेषितस्य सुबर्थाधेय- त्वादेर्घोषादावन्वयबोधायोगात् । न च शक्तस्यैव पदस्य स्वसाकाङ्क्षपदान्तरोपस्थाप्यार्थान्वितस्वार्थधर्मिकान्वयबोधं प्रति हेतुत्वादन्वयबुद्धौ लक्ष्यार्थस्याप्रवेशः, कुन्ताः प्रति- शन्तीत्यादौ लक्ष्यस्य कुन्तधरादेरन्वयविशेष्यत्वानुपपत्तेः कुमतिः पशुरित्यादौ शक्यलक्ष्यार्थयोरन्वयबोधस्याप्यानुभवि कावाच्च । तस्माच्छक्तेरिव भक्तेरपि ज्ञानमनुभावकं भव त्येव कार्य्यातावच्छेदकस्य सङ्कोचाच्च न व्यभिचारः” सा च बहुधा विस्तरस्तु सा० द० २ प० दृश्यः ।


शब्दकल्पद्रुमः

लक्षणं || क्ली (लक्ष्यतेऽनेनेति । लक्ष + ल्युट् । यद्वा, “लक्षेरट् च ।” उणा० ३ । ७ । इति नप्रत्ययस्तस्याडागमश्च ।)
चिह्नम् । (यथा, रघुः । १० । ६ । “अव्याक्षेपो भविष्यन्त्याः कार्य्यसिद्धेर्हि लक्ष- णम् ॥”)
नाम । इति मेदिनी । णे, ७५ ॥ लक्ष्यते ज्ञायते- ऽनेनेति लक्षणम् । तद्द्विविधम् । इतरभेदानु- मापकम् । व्यवहारप्रयोजकञ्च । इति न्याय- मतम् ॥ व्याकरणमते तु । “कृत्तद्धितसमासानामभिधानं नियामकम् । लक्षणन्त्वनभिज्ञानां तदभिज्ञानसूचकम् ॥” इति वोपदेवः ॥ (लक्षणलक्षणन्तु । “समानासमानजातीयो व्यवच्छेदो लक्षणार्थः ।” इति सांख्यतत्त्वकौमु- द्याम् । ५ ॥ सुखदुःखलक्षणं यथा, मनौ । ४ । १६० । “सर्व्वं परवशं दुःखं सर्व्वमात्मवशं सुखम् । एतद्बिद्यात् समासेन लक्षणं सुखदुःखयोः ॥”)
दर्शनम् । इति लक्षधात्वर्थदर्शनात् ॥


शब्दकल्पद्रुमः

लक्षणः || पुं, (लक्ष + “लक्षेरट् च ।” उणा० ३ । ७ । इति नस्तस्याडागमश्च । लक्षणमस्त्यस्येति अच् वा ।)
सौमित्रिः । यथा, हरिवंशे । ४१ । १२९ । “लक्षणानुगतो यश्च सर्व्वभूतहिते रतः । चतुर्द्दश वने तप्त्वा तपो वर्षाणि राघवः ॥”)
सारसपक्षी । इति शब्दरत्नावली ॥



Correction: