शब्दकल्पद्रुमः
लक्षिता || स्त्री (लक्ष + क्तः । स्त्रियां टाप् ।) परकीयान्तर्गतनायिकाभेदः । अस्या लक्षणम् । पुंश्चलीभावनिपुणा । उदाहरणं यथा, — “यद्भूतं तद्भूतं यद्भूयात्तदपि वा भूयात् । यद्भवतु तद्भवतु वा विफलस्तव गोपनोपायः ॥” इति रसमञ्जरी ॥