संस्कृत-शब्दकोशः

लक्षिता लक्ष्मणप्रसू

लक्ष्मण

शब्दकल्पद्रुमः

लक्ष्मणं || क्ली चिह्नम् । इति शब्दरत्नावली ॥ (यथा, माधे । ९ । ३१ । “अथ लक्ष्मणानुगतकान्तवपु- र्जलधिं विलङ्घ्य शशिदाशरथिः । परिवारितः परित ऋक्षगणै- स्तिमिरौघराक्षसकुलं विभिदे ॥”)
नाम । इत्यमरटीकायां भरतः ॥ (लक्ष्मीरस्त्य- स्येति । लक्ष्मी + पामादित्वान्नः । लक्ष्म्या अच्चेति गणसूत्रेणात्वं बोध्यम् ।)
श्रीविशिष्टे, त्रि । इति मेदिनी । णे, ७५ ॥


शब्दकल्पद्रुमः

लक्ष्मणः || पुं, (लक्ष्मणमस्त्यस्येति । अर्शआदि- त्वादच् ।)
सारसः । इति हेमचन्द्रः ॥ श्रीराम- भ्राता । इति मेदिनी । णे, ७६ ॥ (यथा, अध्यात्मरामायणे । १ । ३ । ४५ । “भरणाद्भरतो नाम लक्ष्मणं लक्ष्मणान्वितम् । शत्रुघ्नं शत्रुहन्तारमेवं गुरुरभाषत ॥”)
स च त्रेतायुगे अयोध्यायां सुमित्रागर्भे दश- रथाज्जातः । इन्द्रजिद्वधार्थं तस्य त्ततुर्द्दशवर्ष- पर्य्यन्तं आहारनिद्रादिरहितत्वं यथा, —
“एकदा रघुनाथश्च सीतया लक्ष्मणेन च । स्नातः सरसि तत्रस्थो रम्ये पञ्चवटीतटे ॥ उवाच सीतां हेमन्ते जलं सुस्वादु निर्म्मलम् । तथान्नव्यञ्जनं रम्यं सर्व्वं वस्तु सुशीतलम् ॥ फलञ्च चयनं चक्रे सीतायै प्रददौ पुरः । ततो ददौ लक्ष्मणाय पश्चाद्भुङ्क्ते स्वयं प्रभुः ॥ लक्ष्मणस्तु गृहीत्वा च नैव भुङ्क्ते फलं जलम् । मेघनादवधार्थञ्च सीतोद्धारणकारणात् ॥ निद्रां न याति नो भुङ्क्ते वर्षाणाञ्च चतुर्द्दश । य एव पुरुषो योगी तद्वध्यो रावणात्मजः ॥” इति ब्रह्मवैवर्त्ते श्रीकृष्णजन्मखण्डे ११५ अध्यायः ॥



Correction: