संस्कृत-शब्दकोशः

लक्ष्मणप्रसू लक्ष्मन्

लक्ष्मणा

शब्दकल्पद्रुमः

लक्ष्मणा || स्त्री (लक्ष्मणमस्त्यस्या इति । अर्श आदित्वात् अच् । टाप् ।)
श्वेतकण्टकारी । इति राजनिर्घण्टः ॥ सारसी । ओषधिभेदः । इति मेदिनी । ७६ ॥ शेषस्तु लक्ष्मणाकन्द इति नाम्ना ख्यातः । तस्याः पर्य्यायः । पुत्त्रकन्दा २ पुत्त्रदा ३ नागिनी ४ नागाह्वा ५ नागपत्री ६ तुलिनो ७ मज्जिका ८ अस्रबिन्दुच्छदा ९ पुच्छदा १० । अस्या गुणाः । मधुरत्वम् । शीतत्वम् । स्त्रीबन्ध्यत्वनाशित्वम् । रसायनकरत्वम् । बल्य- त्वम् । त्रिदोषशमनत्वञ्च । इति राजनिर्घण्टः ॥ अपि च । “पुत्त्रकाकाररक्ताल्पबिन्दुभिर्लाञ्छिता सदा । लक्ष्मणा पुत्त्रजननी वस्तगन्धाकृतिर्भवेत् ॥” इति भावप्रकाशः ॥ * ॥
(मद्राधिपतिकन्या । यथा, भागवते । १० । ५८ । ५७ । “सुताञ्च मद्राधिपतेर्लक्ष्मणां लक्ष्मणैर्युताम् । स्वयंवरे जहारैकः स सुपर्णः सुधामिव ॥”)
दुर्य्योधनकन्या । सा तु श्रीकृष्णपुत्त्रेण साम्बेन विवाहिता । इति महाभारतम् ॥ (यथा, भागवते । १० । ६८ । १ । “दुर्य्योधनसुतां राजन् लक्ष्मणां समितिञ्जयः । स्वयंवस्थामहरत् साम्बो जाम्बवतीसुतः ॥”)



Correction: