संस्कृत-शब्दकोशः

लक्ष्मणा लक्ष्मी

लक्ष्मन्

वाचस्पत्यम्

लक्ष्मन् ||‍ न० लक्ष—मनिन् । १ चिह्ने २ प्रधाने च अमरः । स्वार्थे अण् पृषो० न वृद्धिः । ३ सारसपक्षिणि पुंस्त्री० हेमच० दशरथपत्न्याः सुमित्रायाः ४ ज्येष्ठात्मजे च पु० । ५ श्वेतकण्ठकार्य्यां हेमच० स्त्री टाप् ६ सारसपक्षिस्त्रियाम् ७ औषधभेदे च स्त्री मेदि० टाप् ।


शब्दकल्पद्रुमः

लक्ष्म || [न्] क्ली, (लक्षयत्यनेन लक्ष्यते इति वा । लक्ष + मनिन् ।)
चिह्नम् । (यथा, शाकुन्तले १ अङ्के । “सरसिजमनुविद्धं शैवलेनापि रम्यं मनिलमपि हिमांशोर्लक्ष्म लक्ष्मीं तनोति । इयमधिकमनोज्ञा वल्कलेनापि तन्वी किमिव हि मधुराणां मण्डनं नाकृतीनाम् ॥”)
प्रधानम् । इत्यमरः । ३ । ३ । १२४ ॥



Correction: