वाचस्पत्यम्
लक्ष्मी || स्त्री लक्ष—ई—मुट् च । १ विष्णोःपत्न्याम् अमरः । २ शोभायां, ३ कान्तौ, ४ सम्पतौ, ५ ऋद्ध्यौषधे, ६ वृद्धिना- मौषधे, ७ फलिनीवृक्षे च मेदि० । ८ स्थलपद्मिन्याम् ९ हरि- द्रायां, १० शम्यां, ११ मुक्तायां १२ द्रव्ये च राजनि० १३ पीडायां १४ वारयोषिति च शब्दच० । लक्ष्मीपूजाकालादि स्कन्दपु० उक्तं यथा “पौषे चैत्रे तथा भाद्रे पूजयेयुः स्त्रियः श्रियम् । सिंहे धनुषि मीने च स्थिते सप्ततुरङ्गमे । प्रत्यव्दं पूजय- ल्लक्ष्मीं शुक्लपक्षे गुरोर्दिने । नापराह्णे न रात्रौ च नासिते न त्र्यहस्पृशि । द्वादश्यां चैव नन्दायां रिक्ता- याञ्च निरंशके । त्रयोदश्यां तथाष्टम्यां कमलां नैव पूजयेत् । न पूजयेत् शनौ भौमे न बुधे नैव भार्गवे । पूजयेत्तु गुरोर्वारे चाप्राप्ते रविसोमयोः । गुरुवारे हि पूर्णा च यत्नेन यदि लभ्यते । तत्र पूज्या तु कमला धनपुत्रविवर्द्धिनी । न कुर्य्यात् प्रथमे मासि नैव कुर्य्याद्विसर्जनम् । न घण्टां वादयेत्तत्र नैव झिण्टीं प्रदापयेत् । पौषे च दशमी शस्ता चैत्रके पञ्चमी तथा । नभस्ये पूर्णिमा ज्ञेया गुरुवारे विशेषतः । आढकं धान्वसंपूर्णं नानाभरणभूषितम् । सुगन्धिशुक्लपुष्पेण शुक्लपक्षे विशेषतः । पौष तु पिष्टकं दद्यात् परप्रान्नञ्च चैत्रके । विष्टकं परमान्नञ्च नभस्ये तु विशेषतः । गुरु- वारसमायुक्ता नमस्ये पूर्णिमा शुभा । कमलां पूजये त्तत्र पुनर्जन्म न विद्यते । एकेम कमलेनैव कमलां पूजयेद् यदि । इह लोके सुखं पाप्य परत्र केशवं व्रजेत्” । लक्ष्मीचरित्रे तु “न कृष्णपक्षे रिक्तायां दशमी द्वादशीषु च । श्रवणादिचतुरृक्षे लक्ष्मीपूजां न का- रयेत” । दशमीनिषेधः पौषातिरिक्तपरः प्रागुक्तैक- वाक्यत्वात् । दीपान्वितामास्यायां तत्पूजादिकं दीपान्वित- शब्दे ३६०७ पृ० दृश्यम् । कोजागरलक्ष्मीपूजा कोजा- गरशब्दे २२६२ पृ० दृश्या । माघशुक्लपञ्चम्यां श्री- पूजनं “पञ्चम्यां श्रीरपि श्रियम्” ति० त० विहितम् । “पञ्चम्यां श्रियं पूजयेत्” कल्पश्रुतिरपि तत्परा । गरु० पु० ११४ अ० लक्ष्म्यास्त्यागकारणतोक्ता यथा “कुचेलिनं दन्तमलोपधारिणं बह्वाशिनं निष्ठुरवाक्य भाषिणम् । मूर्य्योदये चास्तमये च शायिनं विमुञ्चति श्रीरपि चक्रपाणिनम् । नित्यं छेदस्तृणांनां धरणि- विलिखनं पादयोरल्पमार्ष्टिर्दन्तानामल्पशौचं वसनमलि- नता रूक्षता मूर्ध्वजानाम् । द्वे सन्ध्ये चापि निद्रा विवसनशयनं ग्रासहासातिरेकः स्वाङ्के पीठे च वाद्यं निधनमुपनयेत् केशवस्यापि लक्ष्मीः । तस्या भाजनहेतुता तत्रोक्ता यथा “शिरः सुधौतं चरणौ सुमार्जितौ वरा- ङ्गनासेवनमल्पभोजनम् । अनग्नशायित्वमपर्वमैथुनं चिरप्रनष्टां श्रियमानयन्ति षट् । यस्य कस्य तु पुष्पस्य पाण्डरस्य विशेषतः । शिरसा धार्य्यमाणस्य अलक्ष्मीः प्रतिहन्यते । दीपस्य पश्चिमाच्छाया च्छाया शय्यासनस्य च । रजकस्य तु यत्तीर्थमलक्ष्मीस्तत्र तिष्ठति” ।
शब्दकल्पद्रुमः
लक्ष्मीः || स्त्री (लक्षयति पश्यति उद्योगिनमिति । लक्षि + “लक्षेर्मुट् च ।” उणा० ३ । १६० । इति ईप्रत्ययो मुडागमश्च ।)
विष्णुपत्नी । तत्पर्य्यायः । पद्मालया २ पद्मा ३ कमला ४ श्रीः ५ हरि- प्रिया ६ इन्दिरा ७ लोकमाता ८ मा ९ क्षीराब्धितनया १० रमा ११ । इत्यमरः ॥ जलधिजा १२ भार्गवी १३ । इति शब्दरत्ना- वली ॥ हरिवल्लभा १४ दुग्धाब्धितनया १५ क्षीरसागरसुता १६ । इति कविकल्पलता ॥ * ॥
अथ लक्ष्मीमन्त्राः । “वान्तं वह्निसमारूढं वामनेत्रेन्दुसंयुतम् । बीजमेतत् श्रियः प्रोक्तं सर्व्वकामफलप्रदम् ॥” * ॥
अस्य पूजाप्रयोगः । प्रातःकृत्यादिपीठन्यासान्तं कर्म्म विधाय हृत्पद्मस्य पूर्ब्बादिकेशरेषु मध्ये च पीठशक्तीः पीठमनुञ्च न्यसेत् । ॐ विभूत्यै नमः । एवं उन्नत्यै कान्त्यै सृष्ट्यै कीर्त्त्यै सन्नत्यै व्युष्ट्यै उत्कृष्ट्यै ऋद्ध्यै । ततः श्रीकमलासनाय नमः । इत्यासनं विन्यस्य ऋष्यादिन्यासं कुर्य्यात् । शिरसि भृगुऋषये नमः मुखे निवृच्छन्दसे नमः । हृदि श्रियै देवतायै नमः । ततः कराङ्गन्यासौ कुर्य्यात् । श्रां अङ्गुष्ठाभ्यां नमः । श्रीं तर्जनीभ्यां स्वाहा । श्रूं मध्यमाभ्यां वषट् । इत्यादि । एव श्रां हृदयाय नमः इत्यादिना च न्यसेत् । तथा च निबन्धे । “अङ्गानि दीर्घयुक्तेन रमाबीजेन कल्पयेत् ।” ततो ध्यानम् । “कान्त्या काञ्चनसन्निभां हिमगिरिप्रख्यै- श्चतुर्भिर्गजै र्हस्तोत्क्षिप्तहिरण्मयामृतघटैराषिच्यमानां श्रियम् । बिभ्राणां वरमब्जयुग्ममभयं हस्तैः किरीटो- ज्ज्वलां क्षौमाबद्धनितम्बविम्बललितां वन्देऽरविन्द- स्थिताम् ॥” एवं ध्यात्वा मानसैः संपूज्य शङ्खस्थापनं कुर्य्यात् । ततः पीठपूजां विधाय केशरेषु मध्ये च विभू- त्यादिपीठमन्वन्तपूजां विधाय पुनर्ध्यात्वा आवा- हनादिपञ्चपुष्पाञ्जलिदानपर्य्यन्तं विधाय आव- रणपूजामारभेत् । अग्न्यादिकेशरेषु मध्ये दिक्षु च श्रां हृदयाय नमः । इत्यादिना संपूज्य दिग्- दलेषु पूर्व्वादिषु ॐ वासुदेवाय नमः । एवं सङ्क- र्षणाय प्रद्युम्नाय अनिरुद्धाय । विदिग्दलेषु ॐ दमकाय ॐ सलिलाय ॐ गुग्गुलवे ॐ कुरु- ण्टकाय । ततो देव्या दक्षिणे ॐ शङ्खनिधये नमः । एवं वसुधारायै । वामे ॐ पद्मनिधये वसुमत्यै । पत्राग्रेषु पूर्व्वादिषु ॐ वलाक्यै नमः । एवं विमलायै कमलायै वनमालिकायै विभी- षिकायै शाङ्कर्य्यै वसुमालिकायै । तद्बहिरिन्द्रा- दीन् वज्रादींश्च पूजयेत् । ततो धूपादिविस- र्जनान्तं कर्म्म समापयेत् । अस्य पुरश्चरणं द्वादशलक्षजपः । तथा च । “भानुलक्षं जपेन्मन्त्रं दीक्षितो विजितेन्द्रियः । तत्सहस्रञ्च जुहुयात् कमलैर्मधुराप्लुतैः । जपान्ते जुहुयान्मन्त्री तिलैर्वा मधुराप्लुतैः । विल्वैः फलैर्व्वा जुहुयात्त्रिभिर्व्वा साधकोत्तमः ॥ वाग्भवं वनिता विष्णोर्माया मकरकेतनः । चतुर्ब्बीजात्मको मन्त्रश्चतुर्व्वर्गफलप्रदः ॥” वाग्भवं ऐं । विष्णुवनिता श्रीँ । माया ह्रीँ । मकरकेतनः क्लीँ । अस्य पूजादिकं पूर्व्ववद्- बोध्यम् । तथा च । “रमायाः कल्पिते पीठे तद्बिधानेन पूजयेत् । कुर्य्यात् प्रयोगान् तत्रस्थाननेन साधकोत्तमः ॥ निधिभिः सेव्यते नित्यं मूर्त्तिमद्भिरुपस्थितैः ॥” ध्याने तु विशेषः । “माणिक्यप्रतिभप्रभां हिमनिभैस्तुङ्गैश्चतुर्भिर्गजै- र्हस्तग्राहितरत्नकुम्भसलिलैराषिच्यमानां सदा । हस्ताब्जैर्वरदानमम्बुजयुगाभीतीर्दधानां हरेः कान्तां काङ्क्षितपारिजातलतिकां वन्दे सरोजा- सनाम् ॥” अस्य पुरश्चरणं द्वादशलक्षजपः । तथा च । “भानुलक्षं हविष्याशी जपेदन्ते सरोरुहैः । जुहुयादरुणैः पुष्पैस्तत्सहस्रं जितेन्द्रियः ॥” मन्त्रान्तरम् । नमः कमलान्ते वासिन्यै ठद्वय- मिति प्रोक्तो दशाक्षरः । तथा च निबन्धे । “दीर्घा यादिर्विसर्गान्तो ब्रह्मा भानुर्व्वसुन्धरा । वान्तेसिन्यै प्रिया वह्नेर्मनुः प्रोक्तो दशाक्षरः ॥” “दीर्घा नकारः । यादिर्मः । ब्रह्मा कः । भानुर्मः । वसुन्धरा लः । वान्तेसिन्यै वासिन्यै । वह्निप्रिया स्वाहा । अस्य पूजाप्रयोगः । पूर्व्व- वत् पीठमन्वन्तं विन्यस्य ऋष्यादिन्यासं कुर्य्यात् । शिरसि दक्षऋषये नमः । मुखे विराट्छन्दसे नमः । हृदि श्रियै देवतायै नमः । तथा च शारदायाम् । “ऋषिर्दक्षो विराट्छन्दो देवता श्रीः प्रकी र्त्तिता ॥” ततः कराङ्गन्यासौ । ॐ देव्यै नमोऽङ्गुष्ठाभ्यां नमः । ॐ पद्मिन्यै नमस्तर्जनीभ्यां स्वाहा । ॐ विष्णुपत्न्यै नमो मध्यमाभ्यां वषट् । ॐ वरदायै नमोऽनामिकाभ्यां हुं । ॐ कमलरूपायै नमः कनिष्ठाभ्यां फट् । एवं हृदयादिषु । ॐ देव्यै नमो हृदयाय नम इत्यादि । तथा च निबन्धे । “देव्यै हृदयमाख्यातं पद्मिन्यै शिर ईरितम् । विष्णुपत्न्यै शिखा प्रोक्ता वरदायै तनुच्छदम् । अस्त्रं कमलरूपायै नमोऽन्ताः प्रणवादिकाः ॥” ततो ध्यानम् । “आसीना सरसीरुहे स्मितमुखी हस्ताम्बुजै- र्बिभ्रती दानं पद्मयुगाभये च वपुषा सौदामिनी- सन्निभा । मुक्ताहारविराजमानपृथुलोत्तुङ्गस्तनोद्भाषिणी पायाद्वः कमला कटाक्षविभवैरानन्दयन्ती हरिम् ॥” एवं ध्यात्वा मानसैः संपूज्य शङ्खस्थापनं कृत्वा पूर्व्वोक्तपीठशक्तिसहितपीठमन्वन्तां पूजां विधाय पूनर्ध्यात्वावाहनादिपञ्चपुष्पाञ्जलिदान- पर्य्यन्तं विधायावरणपूजामारभेत् । अग्न्यादि- चतुष्क दिक्षु च ॐ देव्यै नमो हृदयाय नमः । ॐ पद्मिन्यै नमः शिरसे स्वाहा । ॐ विष्णु- पत्न्यै नमः शिखायै वषट् । ॐ वरदायै नमः कवचाय हुम् । ॐ कमलरूपायै नमोऽस्त्राय फट् । ततः पूर्ब्बादिदलेषु पूर्ब्बवत् वलाक्यादि पूजयेत् । तद्बहिरिन्द्रादीन् वज्रादींश्च पूजयेत् । ततो धूपादिविसर्जनान्तं कर्म्म समापयेत् । अस्य पुरश्चरणं दशलक्षजपः । तथा च । “दशलक्षं जपेन्मन्त्रं मन्त्रविद्बिजितेन्द्रियः । दशांशं जुहुयान्मन्त्री मधुराक्तैः सरोरुहैः ॥” * ॥
अथ लक्ष्मीस्तोत्रम् । ईश्वर उवाच । “त्रैलोक्यपूजिते देवि ! कमले विष्णुवल्लभे । यथा त्वं सुस्थिरा कृष्णे तथा भव मयि स्थिरा ॥ ईश्वरी कमला लक्ष्मीश्चला भूतिर्हरिप्रिया । पद्मा पद्मालया सम्पत्सृष्टिः श्रीः पद्मधारिणी ॥ द्बादशैतानि नामानि लक्ष्मीं संपूज्य यः पठेत् । स्थिरा लक्ष्मीर्भवेत् तस्य पुत्त्रदारादिभिः सह ॥” इति तन्त्रसारः ॥ विष्णुपुराणोक्तलक्ष्मीस्तोत्रं तत्रैव १ अंशे ९ अध्याये द्रष्टव्यम् ॥ * ॥
अथ लक्ष्मीपूजा- निरूपणम् । यथा, स्कन्दपुराणे । “पौषे चैत्रे तथा भाद्रे पूजयेयुः स्त्रियः श्रियम् । सिंहे धनुषि मीने च स्थिते सप्ततुरङ्गमे ॥ प्रत्यब्दं पूजयेल्लक्ष्मीं शुक्लपक्षे गुरोर्दिने । नापराह्णे न रात्रौ च नासिते न त्र्यहस्पृशि ॥ द्वादश्याञ्चैव नन्दायां रिक्तायाञ्च निरंशके । त्रयोदश्यां तथाष्टम्यां कमलां नैव पूजयेत् ॥ न पूजयेत् शनौ भौमे न बुधे नैव भार्गवे । पूजयेत्तु गुरोर्वारे चाप्राप्ते रविसोमयोः ॥ गुरुवारे हि पूर्णा च यत्नेन यदि लभ्यते । तत्र पूज्या तु कमला धनपुत्त्रविवर्द्धिनी ॥ न कुर्य्यात् प्रथमे मासि नैव कुर्य्याद्बिसर्जनम् । न घण्टां वादयेत्तत्र नैव झिण्टीं प्रदापयेत् ॥ पौषे च दशमी शस्ता चैत्रके पञ्चमी तथा । नभस्ये पूर्णिमा ज्ञेया गुरुवारे विशेषतः ॥ आढकं धान्यसम्पूर्णं नानाभरणभूषितम् । सुगन्धिशुक्लपुष्पेण शुक्लपक्षे प्रपूजयेत् ॥ पौषे तु पिष्टकं दद्यात् परमान्नञ्च चैत्रके । पिष्टकं परमान्नञ्च नभस्ये तु विशेषतः ॥ गुरुवारसमायुक्ता नभस्ये पूर्णिमा शुभा । कमलां पूजयेत्तत्र पुनर्ज्जन्म न विद्यते ॥ एकेन कमलेनैव कमलां पूजयेद् यदि । इह लोके सुखं प्राप्य परत्र केशवं व्रजेत् ॥ प्राङ्मुखी पूजयेल्लक्ष्मीं पश्चिमाननसंस्थिताम् । गन्धपुष्पधूपदीपनैवेद्याद्युपचारकैः ॥ गन्धद्वारेतिमन्त्रेण गन्धेनावाहयेदसौ । श्रिये जात इति द्वाभ्यां पुष्पैरावाहयेत्ततः ॥” ततो ध्यानम् । “हिरण्यवर्णां हरिणीं सुवर्णरजतस्रजम् । चन्द्रां हिरण्मयीं लक्ष्मीं जातवेदसमावहाम् ॥ गौरवर्णान्तु द्बिभुजां सितपद्मोपरिस्थिताम् । विष्णोर्व्वक्षःस्थलस्थाञ्च जगच्छोभाप्रकाशिनीम् ॥ ध्यायेदाद्यां सदा देवीं पूजाकाले विशेषतः । ततः पूजादिकं कुर्य्यात् श्रीं लक्ष्मीं नम इत्यृचा ॥ लक्ष्मीः पद्मालया पद्मा कमला श्रीर्धतिः क्षमा । तुष्टिः पुष्टिस्तथा कान्तिर्मेधा विद्या रमा श्रुतिः ॥ हरिप्रिया तथा विष्णोः प्रिया नारायणस्य च । एताभिः सप्तदशभिर्लक्ष्मीबीजादिनार्च्चयेत् ॥ लक्ष्मीनारायणाभ्याञ्च नमोऽन्तेन प्रपूजयेत् । धिषणञ्च कुबेरञ्च पूजयेत्तदनन्तरम् ॥” लक्षीचरित्रे । “न कृष्णपक्षे रिक्तायां दशमीद्वादशीषु च । श्रवणादिचतुरृक्षे लक्ष्मीपूजां न कारयेत् ॥” इति कालचन्द्रिका ॥ दीपान्वितामावस्यायां लक्ष्मीपूजाविधिर्यथा, —
“तुलारासिगते भानौ अमावास्यां नराधिपः । स्नात्वा देवान् पितॄन् भक्त्या संपूज्याथ प्रणम्य च ॥ कृत्वा तु पार्व्वणश्राद्धं दधिक्षीरगुडादिभिः । ततोऽपराह्णसमये घोषयेन्नगरे नृपः । लक्ष्मीः संपूज्यतां लोका उल्काभिश्चाभिवेष्ट्य- ताम् ॥ अमावास्या यदा रात्रौ दिवाभागे चतुर्द्दशी । पूजनीया तदा लक्ष्मीर्विज्ञेया सुखरात्रिका ॥ अमावास्यां यदा देवाः कार्त्तिके मासि केश- वात् । अभयं प्राप्य सुप्ताश्च क्षीरोदार्णवसानुषु ॥ लक्ष्मीर्दैत्यभयान्मुक्ता सुखं सुप्ताम्बुजोदरे । चतुर्युगसहस्रान्ते ब्रह्मा स्वपिति पङ्कजे ॥ अतोऽत्र विधिवत् कार्य्या मनुष्यैः सुखसुप्तिका । दिवा तत्र न भोक्तव्यमृते बालातुराज्जनात् ॥ प्रदोषसमये लक्ष्मीं पूजयित्वा यथाक्रमम् । दीपवृक्षास्तथा कार्य्या भक्त्या देवगृहेष्वपि ॥ चतुष्पथश्मशानेषु नदीपर्व्वतसानुषु । वृक्षमूलेषु गोष्ठेषु चत्वरेषु गृहेषु च ॥ वस्त्रैः पुष्पैः शोभितव्याः क्रयविक्र भूमयः । दीपमालापरिक्षिप्ते प्रदोषे तदनन्तरम् ॥ ब्राह्मणान् भोजयित्वादौ विभज्य च बुभुक्षि- तान् । अलङ्कृतेन भोक्तव्यं नववस्त्रोपशोभिना । स्निग्धैर्मुग्धैर्व्विदग्धैश्च बान्धवैर्भृतकैः सह ॥” अत्र लक्ष्मीपूजायां पुष्पदानकाले । “नमस्ते सर्व्वदेवानां वरदासि हरिप्रिये ! । या गतिस्त्वत्प्रपन्नानां सा मे भूयात्त्वदर्च्चनात् ॥” लक्ष्म्यै नम इत्यनेन वारत्रयं पूजयेत् । “सुखरात्र्यां प्रदोषे तु कुबेरं पूजयन्ति ये ॥” इति रुद्रधरधृतात् कुबेरमपि पूजयन्ति । “धनदाय नमस्तुभ्यं निधिपद्माधिपाय च । भवन्तु त्वत्प्रसादान्मे धनधान्यादिसम्पदः ॥” इति पठित्वा कुबेराय नम इति त्रिः पूजयेत् । ततो देवगृहादिषु दीपान् दद्यात् । तत्र मन्त्रः । “अग्निज्योती रविज्योतिश्चन्द्रज्योतिस्तथैव च । उत्तमः सर्व्वज्योतीनां दीपोऽयं प्रतिगृह्यताम् ॥” ततो ब्राह्मणान् बन्धूंश्च भोजयित्वा स्वयं भुक्त्वा सुखं सुप्त्वा प्रत्यूषे भविष्योक्तं कर्म्म कुर्य्यात् । तथा, —
“सुखरात्रेरुषःकाले प्रदीपोज्ज्वलितालये । बन्धूर्ब्बन्धूनबन्धूंश्च वाचा कुशलयार्च्चयेत् ॥ प्रदीपवन्दनं कार्य्यं लक्ष्मीमङ्गलहेतवे । गोरोचनाक्षतञ्चैव दद्यादङ्गेषु सर्व्वतः ॥” लक्ष्मीपूजामन्त्रः । “विश्वरूपस्य भार्य्यासि पद्मे पद्मालये शुभे । महालक्ष्मि नमस्तुभ्यं सुखरात्रिं कुरुष्व मे ॥ वर्षाकाले महाघोरे यन्मया दुष्कृतं कृतम् । सुखरात्रिप्रभातेऽद्य तन्मे लक्ष्मीर्व्यपोहतु ॥ या रात्रिः सर्व्वभूतानां या च देवेष्ववस्थिता । संवत्सरप्रिया या च सा ममास्तु सुमङ्गला ॥ माता त्वं सर्व्वभूतानां देवानां सृष्टिसम्भवा । आख्याता भूतले देवि ! सुखरात्रि नमोऽस्तु ते ॥” लक्ष्म्यै नम इति त्रिः पूजयेत् । इति तिथ्यादि- तत्त्वम् ॥ * ॥
तस्या उपाख्यानं यथा, — नारद उवाच । “श्रीकृष्णस्यात्मनश्चैव निर्गुणस्य निराकृतेः । सावित्रीयमसंवादे श्रुतं सुनिर्म्मलं यशः ॥ तद्गुणोत्कीर्त्तनं सत्यं मङ्गलानाञ्च मङ्गलम् । अधुना श्रोतुमिच्छामि लक्ष्म्युपाख्यानमेव च ॥ केनादौ पूजिता सापि किम्भूता केन वा पुरा । तद्गुणोत्कीर्त्तनं सत्यं वद वेदविदांवर ॥ श्रीनारायण उवाच । सृष्टेरादौ पुरा ब्रह्मन् कृष्णस्य परमात्मनः । देवी वामांशसम्भूता बभूव रासमण्डले ॥ अतीवसुन्दरी रामा न्यग्रोधपरिमण्डला । यथा द्बादशवर्षीया शश्वत् सुस्थिरयौवना ॥ श्वेतचम्पकवर्णाभा सुखदृश्या मनोहरा । शरत्पार्व्वणकोटीन्दुप्रभाप्रच्छादितानना ॥ शरन्मध्याह्नपद्मानां शोभामोचनलोचना । सा च देवी द्विधा भूता सहसैवेश्वरेच्छया ॥ समा रूपेण वर्णेन तेजसा वयसा त्विषा । यशसा वाससा सूक्त्या भूषणेन गुणेन च ॥ स्मितेन वीक्षितेनैव वचसा गमनेन च । मधुरेण स्वरेणैव नयेनानुनयेन च ॥ तद्बामांशो महालक्ष्मीर्द्दक्षिणांशश्च राधिका । राधादौ वरयामास द्विभुजञ्च परात्परम् ॥ महालक्ष्मीश्च तत्पश्चाच्चकमे कमनीयकम् । कृष्णस्तद्गौरवेणैव द्विधारूपो बभूव ह ॥ दक्षिणांशश्च द्बिभुजो वामांशश्च चतुर्भुजः । चतुर्भुजाय द्बिभुजो महालक्ष्मीं ददौ पुरा ॥ लक्ष्यते दृश्यते विश्वं स्निग्धदृष्ट्या ययानिशम् । देवीषु या च महती महालक्ष्मीश्च सा स्मृता ॥ द्बिभुजो राधिकाकान्तो लक्ष्मीकान्तश्चतुर्भुजः । शुद्धसत्त्वस्वरूपैश्च गोपैर्गोपीभिरावृतः ॥ चतुर्भुजश्च वैकुण्ठं प्रययौ पद्मया सह । सर्व्वांशेन समौ द्बौ तौ कृष्णनारायणौ परौ ॥ महालक्ष्मीश्च योगेन नानारूपा बभूव सा । वैकुण्ठे च महालक्ष्मीः परिपूर्णतमा रमा ॥ शुद्धसत्त्वस्वरूपा च सर्व्वसौभाग्यसंयुता । प्रेम्णा सा च प्रधाना च सर्व्वासु रमणीषु च ॥ स्वर्गे च स्वर्गलक्ष्मीश्च शक्रसम्पत्स्वरूपिणी । पातालेषु च मर्त्येषु राजलक्ष्मीश्च राजसु ॥ गृहलक्ष्मीर्गृहेष्वेव गृहिणी च कलांशया । सम्पत्स्वरूपा गृहिणां सर्व्वमङ्गलमङ्गला ॥ गवां प्रसूः सा सुरभी दक्षिणा यज्ञकामिनी । क्षीरोदसिन्धुकन्या सा श्रीरूपा पद्मिनीषु च ॥ शोभास्वरूपा चन्द्रे च सूर्य्यमण्डलमण्डिता । विभूषणेषु रत्नेषु फलेषु च जलेषु च ॥ नृपेषु नृपपत्नीषु दिव्यस्त्रीषु गृहेषु च । सर्व्वशस्येषु वस्त्रेषु स्थानेषु संस्कृतेषु च ॥ प्रतिमासु च देवानां मङ्गलेषु घटेषु च । माणिक्येषु च मुक्तासु माल्येषु च मनोहरा ॥ मणीन्द्रेषु च हीरेषु क्षीरेषु चन्दनेषु च । वृक्षशाखासु रम्यासु नवमेधेषु वस्तुषु ॥ वैकुण्ठे पूजिता सादौ देवी नारायणेन च । द्वितीये ब्रह्मणा भक्त्या तृतीये शङ्करेण च ॥ विष्णुना पूजिता सा च क्षीरोदे भारते मुने ! स्वायम्भुवेन मनुना मानवेन्द्रैश्च सर्व्वतः ॥ ऋषीन्द्रैश्च मुनीन्द्रैश्च सद्भिश्च गृहिभिर्भवे । गन्धर्व्वाद्यैश्च नागाद्यैः पातालेषु च पूजिता ॥ शुक्लाष्टम्यां भाद्रपदे कृता पूजा च ब्रह्मणा । भक्त्या च पक्षपर्य्यन्तं त्रिषु लोकेषु नारद ! ॥ चैत्रे पौषे च भाद्रे च पुण्ये मङ्गलवासरे । विष्णुना निर्म्मिता पूजा त्रिषु लोकेषु भक्तितः ॥ वर्षान्ते पौषसंक्रान्त्यां मेध्यामावाह्य प्राङ्गणे । मनुस्तां पूजयामास सा भूता भुवनत्रये ॥ राजेन्द्रेण पूजिता सा मङ्गलेनैव मङ्गला । केदारेणैव नीलेन नलेन सुवलेन च ॥ ध्रुवेणोत्तानपादेन शक्रेण बलिना तथा । कश्यपेन च दक्षेण कर्द्दमेन विवस्वता ॥ प्रियव्रतेन चन्द्रेण कुबेरेणैव वायुना । यमेन वह्निना चैव वरुणेनैव पूजिता ॥ एवं सर्व्वत्र सर्व्वैश्च वन्दिता पूजिता सदा । सर्व्वैश्वर्य्याधिदेवी सा सर्व्वसम्पत्स्वरूपिणी ॥” अपि च । नारद उवाच । “बारायणप्रिया सा च वरा वैकुण्ठवासिनी । वैकुण्ठाधिष्ठातृदेवी महालक्ष्मीः सनातनी ॥ कथं बभूव सा देवी पृथिव्यां सिन्धुकन्यका । किं तद्ध्यानञ्च स्तवनं सर्व्वः पूजाविधिक्रमः । पुरा केन स्तुतादौ सा तन्मां व्याख्यातुमर्हसि ॥ श्रीनारायण उवाच । पुरा दुर्व्वाससः शापात् भ्रष्टश्रीश्च पुरन्दरः । बभूव देवसंघश्च मर्त्यलोकश्च नारद ! ॥ लक्ष्मीः स्वर्गादिकं त्यक्त्वा रुष्टा परमदुःखिता । गत्वा लीना च वैकुण्ठे महालक्ष्म्याञ्च नारद ॥ तदा शोकाद्ययुर्देवा दुःखिता ब्रह्मणः सभाम् । ब्रह्माणञ्च पुरस्कृत्य ययुर्वैकुण्ठमेव च ॥ वैकुण्ठे शरणापन्ना देवा नारायणे परे । अतीवदैन्ययुक्ताश्च शुष्ककण्ठौष्ठतालुकाः ॥ तदा लक्ष्मीश्च कलया पुरा नारायणाज्ञया । बभूव सिन्धुकन्या सा शक्रसम्पत्स्वरूपिणी ॥ तथा मथित्वा क्षीरोदं देवा दैत्यगणैः सह । संप्रापुश्च वरं लक्ष्म्या ददृशुस्ताञ्च तत्र हि ॥ सुरादिभ्यो वरं दत्त्वा वरमालाञ्च विष्णवे । ददौ प्रसन्नवदना तुष्टा क्षीरोदशायिने ॥ देवाश्चाप्यसुरग्रस्तं राज्यं प्रापुश्च तद्वरात् । तां सम्पूज्य च सम्भूय सर्व्वत्र च निरापदः ॥” इति ब्रह्मवैवर्त्ते प्रकृतिखण्डे ३५ । ३६ अध्यायौ । लक्ष्म्या अगम्यगृहाणि यथा, —
“यं यं रुष्टो गुरुर्द्देवो माता तातश्च बान्धवः । अतिथिः पितृलोकाश्च न यामि तस्य मन्दि- रम् ॥ मिथ्यावादी च यः शश्वन्नास्तीति वाचकः सदा । सत्त्वहीनश्च दुःशीलो न गेहं तस्य याम्यहम् ॥ सत्यहीनः स्थाप्यहारी मिथ्यासाक्ष्यप्रदायकः । विश्वासघ्नः कृतघ्नो यो न यामि तस्य मन्दिरम् ॥ चिन्ताग्रस्तो भयग्रस्तः शत्रुग्रस्तोऽतिपातकी । ऋणग्रस्तोऽतिकृपणो न गेहं यामि पापिनाम् ॥ दीक्षाहीनश्च शोकार्त्तो मन्दधीः स्त्रीजितः सदा । पुंश्चलीपतिपुत्त्रौ यौ तद्गेहं नैव याम्यहम् ॥ पुंश्चल्यन्नञ्चावीरान्नं यो भुङ्क्ते कामतः सदा । शूद्रान्नभोजी तद्याजी तद्गेहं नैव याम्यहम् ॥ यो दुर्व्वाक् कलहाविष्टः कलिः शश्वदघालये । स्त्री प्रधाना गृहे यस्य न यामि तस्य मन्दि- रम् ॥ यत्र नास्ति हरेः पूजा तदीयगुणकीर्त्तनम् । नोत्सुकश्च प्रशंसायां न यामि तस्य मन्दिरम् ॥ कन्यान्नवेदविक्रेता नरघाती च हिंसकः । नरकागारसदृशं न यामि तस्य मन्दिरम् ॥ स्वदत्तां परदत्तां वा ब्रह्मवृत्तिं सुरस्य च । यो हरेद्दानहीनश्च न यामि तस्य मन्दिरम् ॥ यत् कर्म्म दक्षिणाहीनं मूढधीः कुरुते शठः । स पापी पुण्यहीनश्च न यामि तस्य मन्दिरम् ॥ मातरं पितरं भार्य्यां गुरुपत्नीं गुरुञ्च तम् । अनाथां भगिनीं कन्यामनन्याश्रयबान्धवान् ॥ कार्पण्याद्यो न पुष्णाति सञ्चयं कुरुते सदा । तद्गृहान्नरकाकारान्न यामि तान्मुनीश्वराः ॥ मूत्रं पुरीषमुत्सृज्य यस्तत् पश्यति मन्दधीः । यः शेते स्निग्धपादेन न यामि तस्य मन्दिरम् ॥ अधौतपादशायी यो नग्नः शेतेऽतिनिद्रितः । सन्ध्याशायी दिवाशायी न यामि तस्य मन्दि- रम् ॥ मूर्ध्नि तैलं पुरो दत्त्वा योऽन्यदङ्गमुपस्पृशेत् । ददाति पश्चाद्गात्रे वा न यामि तस्य मन्दिरम् ॥ दत्त्वा तैलं मूर्द्ध्नि गात्रे विण्मूत्रं यः समुत्सृजेत् । प्रणमेदाहरेत् पुष्पं न यामि तस्य मन्दिरम् ॥ तृणं छिनत्ति नखरैर्नखरैर्व्विलिखेन्महीम् । गात्रे पादे मलं यस्य न यामि तस्य मन्दिरम् ॥ दशनं वसनं यस्य समलं रूक्षमस्तकम् । विकृतौ ग्रासहासौ च न यामि तस्य मन्दिरम् ॥ मन्त्रविद्योपजीवी च ग्रामयाजी चिकित्सकः । सूपकृद्देवलश्चैव न यामि तस्य मन्दिरम् ॥ विवाहं धर्म्मकार्य्यं वा यो निहन्ति च कोपतः । दिवामैथुनकारी यो न यामि तस्य मन्दिरम् ॥” इत्यादि ब्रह्मवैवर्त्ते गणेशखण्डे लक्ष्मीचरित- न्नाम २३ अध्यायः ॥ * ॥
अपि च । “कुचेलिनं दन्तमलोपधारिणं बह्वाशिनं निष्ठुरवाक्यभाषिणम् । सूर्य्योदये चास्तमये च शायिनं विमुञ्चति श्रीरपि चक्रपाणिनम् ॥ नित्यं छेदस्तृणानां धरणिविलिखनं पादयो- रल्पमार्ष्टि- र्द्दन्तानामल्पशौचं वसनमलिनता रूक्षता मूर्द्धजानाम् । द्वे सन्ध्ये चापि निद्रा विवसनशयनं ग्रांसहाति- रेकं स्वाङ्गे पीठे च वाद्यं निधनमुपनयेत् केशव- स्यापि लक्ष्मीम् ॥ शिरः सुधौतं चरणौ सुमार्ज्जितौ वराङ्गनासेवनमल्पभोजनम् । अनग्नशायित्वमपर्व्वमैथुनं चिरप्रनष्टां श्रियमानयन्ति षट् ॥ यस्य कस्य तु पुष्पस्य पाण्डरस्य विशेषतः । शिरसा धार्य्यमाणस्य अलक्ष्मीः प्रतिहन्यते ॥ दीपस्य पश्चिमा च्छाया छाया शय्यासनस्य च । रजकस्य तु यत्तीर्थमलक्ष्मीस्तत्र तिष्ठति ॥” इत्यादि गारुडे ११४ अध्यायः ॥ * ॥
अङ्गविशेषे तस्याः स्थितिफलं यथा, — देवा ऊचुः । “कथयस्व जगन्नाथ ! केषु स्थानेष्ववस्थिता । पुरुषाणां फलं किं वा प्रयच्छत्यथ नश्यति ॥ दत्तात्रेय उवाच । नृणां पादस्थिता लक्ष्मीर्निलयं संप्रयच्छति । सक्थिनि संस्थिता वस्त्रं रत्नं नानाविधं वसु ॥ कलत्रदा गुह्यसंस्था क्रोडस्थापत्यदायिनी । मनोरथान् पूरयति पुरुषाणां हृदि स्थिता ॥ लक्ष्मीर्लक्ष्मीवतां श्रेष्ठं कण्ठस्था कण्ठभूषणम् । अभीष्टबन्धुदारैश्च तथाश्लेषं प्रवासिभिः ॥ मिष्टान्नं वाक्यलावण्यमाज्ञामवितथान्तथा । मुखसंस्था कवित्वञ्च यच्छत्युदधिसम्भवा ॥ शिरोगता संत्यजति ततोऽन्यं याति संश्रयम् । सेयं शिरोगता दैत्यान् परित्यजति साम्प्रतम् ॥” इति मार्कण्डेयपुराणे दत्तात्रेयचरिताध्यायः ॥ * ॥
अथ लक्ष्मीचरित्रम् । श्रीसूत उवाच । “मेरुपृष्ठे सुखासीनां लर्क्ष्मो पृच्छति केशवः । केनोपायेन देवि त्वं नृणां भवसि निश्चला ॥ श्रीरुवाच । शुक्लाः पारावता यत्र गृहिणी यत्र चोज्ज्वला । अकलहा वसतिर्यत्र तत्र कृष्ण वसाम्यहम् ॥ धान्यं सुवर्णसदृशं तण्डुला रजतोपमाः । अन्नञ्चैवातुषं यत्र तत्र कृष्ण वसाम्यहम् ॥ यः संविभागी प्रियवाक्यभाषी वृद्धोपसेवी प्रियदर्शनश्च । अल्पप्रलापी न च दीर्घसूत्री तस्मिन् सदाहं पुरुषे वसामि ॥ यो धर्म्मशीलो विजितेन्द्रियश्च विद्याविनीतो न परोपतापी । अगर्व्वितो यश्च जनानुरागी तस्मिन् सदाहं पुरुषे वसामि ॥ चिरं स्नाति द्रुतं भुङ्क्ते पुष्पं प्राप्य न जिघ्रति । यो न पश्येत् स्त्रियं नग्नां नियतं स च मे प्रियः ॥ त्यागः सत्यञ्च शौचञ्च यत्र एते महागुणाः । यः प्राप्नोति गुणानेतान् श्रद्धावान् स च मे प्रियः ॥ सर्व्वलक्षणमध्ये तु त्याग एव विशिष्यते । काले देशे च पात्रे च स च त्यागः प्रशस्यते ॥ नित्यमामलके लक्ष्मीर्नित्यं वसति गोमये । नित्यं शङ्खे च पद्मे च नित्यं श्रीः शुक्लवाससि ॥ वसामि पद्मोत्पलशङ्खमध्ये वसामि चन्द्रे च महेश्वरे च । नारायणे चैव वसुन्धरायां वसामि नित्योत्सवमन्दिरेषु ॥” वसुन्धरायामित्यत्र वसौ धरायामिति वा पाठः ॥ “यथोपदिष्टा गुरुभक्तियुक्ता पत्युर्व्वचो नाक्रमते च नित्यम् । नित्यञ्च भुङ्क्ते पतिभुक्तशेषं तस्याः शरीरे नियतं वसामि ॥ तुष्टा च धीरा प्रियवादिनी च सौभाग्ययुक्ता च सुशोभना च । लावण्ययुक्ता प्रियदर्शना या पतिव्रता या च वसामि तासु ॥ श्यामा मृगाक्षी कृशमध्यभागा सुभ्रूः सुकेशी सुगतिः सुशीला । गभीरनाभिः समदन्तपङ्क्ति- स्तस्याः शरीरे नियतं वसामि ॥ या पापरक्ता पिशुनस्वभावा स्वाधीनकान्तः परिभूयते च । अमर्षकामा कुचरित्रशीला तामङ्गनां प्रेतमुखीं त्यजामि ॥ पुष्पं पर्य्युषितं पूतिं शयनं बहुभिः सह । भग्नासनं कुनारीञ्च दूरतः परिवजयेत् ॥ चिताङ्गारकमस्थीनि वह्निं भस्म द्विजञ्च गाम् । न पादेन स्पशेत् पादं कार्पासास्थि तुषं गुरुम् ॥ नखकेशोदकञ्चैव मैथुनं पर्व्वसन्ध्ययोः । वर्जयेन्नग्नशायित्वमेकाकी मिष्टभोजनम् ॥ शिरः सपुष्पं चरणौ सुपूजितौ निजाङ्गनासेवनमल्पभोजनम् अनग्नशायित्वमपर्व्वमैथुनं चिरप्रनष्टां श्रियमानयन्ति षट् ॥ सम्मार्जनीरजोवात निर्गुण्डीं लकुचन्तथा । रात्रौ विल्वपलाशञ्च कपित्थं वर्जयेद्दधि ॥ स्वगात्रासनयोर्वाद्यं अपूजा मूर्द्धपादयोः । उच्छिष्टस्पर्शनं मूर्द्ध्नि स्नानाभ्यङ्गञ्च वर्जयेत् ॥ शयनञ्चान्धकारे च रात्रिवासो दिने तथा । म्लानाम्बरं कुबेशञ्च वर्जयेत् शुष्कभोजनम् ॥ परेणोद्बर्त्तितं वक्षः स्वयं माल्यापकर्षणम् । आलस्यमवसादञ्च न कुर्य्याल्लोष्टमर्द्दनम् ॥ शुक्रवारे च यत्तैलं शिलापिष्टञ्च दर्शके । स्वयं वामेन मूर्द्धानं पाणिना नैव संस्पृशेत् ॥ तारकाः पुष्यवन्तो च न पश्येदशुचिः पुमान् । नेक्षेद्गुह्यं परस्त्रीणां नास्तं यान्तं दिवाकरम् ॥ कुर्य्यान्नान्यधनाकाङ्क्षां परस्त्रीणां तथैव च । परेषां प्रतिकूलञ्च उदितार्के प्रबोधनम् । नखकण्टकरक्तैश्च मृत्तिकाङ्गारवारिभिः । वृथा विलेखनं भूमौ न कुर्य्यान्मम काङ्क्षया ॥ स्वयं दोहं स्वयं माल्यं स्वयं घृष्टञ्च चन्दनम् । नापितस्य गृहे क्षौरं शक्रादपि हरेत् श्रियम् ॥” स्वयं दोहमित्यत्र ग्रथितञ्चेति वा पाठः । “न निन्दां गणके विप्रे पादयोर्नर्त्तनन्तथा । प्रतिकूलञ्चरेत् स्त्रीणां भुक्त्वा च दन्तधावनम् ॥ अघृतं मांससूपञ्च नग्नाञ्चैव स्त्रियन्तथा । भक्षणाद्दशनाच्चैव शक्रादपि हरेत् श्रियम् ॥ मन्त्रैरयुक्तः परदारसेवी आचारहीनः परसेवकश्च । सङ्कीर्णचारी परिवादशील- स्तं निष्ठुरं दम्भमयं त्यजामि ॥ शयनञ्चार्द्रपादेन रात्रिवासो दिने तथा । नोत्तरीयमधः कुर्य्यात् शुष्कपादेन भोजनम् ॥ अशुचिं म्लानवस्त्राञ्च दुर्गन्धामसुखावहाम् । अभूषणामपुष्पाञ्च न कुर्य्यादात्मनस्तनुम् ॥ कर्णे च वदने घ्राणे तथा करतलेऽपि च । पादे पृष्ठे तथा नेत्रे न कुर्य्यादनुलेपनम् ॥ चक्षुर्लग्ने हतं श्रेयो मुखलग्ने धनक्षयः । दरिद्रः कर्णलग्ने च पादपृष्ठे तथायुषः ॥ गन्धं पुष्पं यथा तोयं रत्नञ्चैव महोदधिम् । गृहीतं प्रथमं वस्त्रं वर्जयेन्न कदाचन ॥ अजरजः खररजस्तथा सम्मार्जनीरजः । स्त्रीणां पादरजो राजन् शक्रादपि हरेत् श्रियम् ॥ कुचेलिनं दन्तमलप्रधारिणं महाशठं निष्ठुरवाक्यभाषिणम् । सूर्य्योदये चास्तमिते तु शायिनं विमुञ्चति श्रीरपि चक्रपाणिनम् ॥” महाशठमित्यत्र बह्वाशिनमिति वा पाठः । “नित्यं छेदस्तृणानां क्षितिनखलिखनं पाठः । रल्पशौचं एकाङ्गे तैलहीनं वसनमलिनताबन्धनं मूर्द्ध- जानाम् । द्बे सन्ध्ये चापि निद्रा विवसनशयणं ग्रासहासा- तिरेकः स्वाङ्गे पीठे च वाद्यं हरति धनपतेः केशव- स्यापि लक्ष्मीम् ॥” अबन्धनमित्यत्र रूक्षता इति वा पाठः । “एवं यः कुरुते नित्यं मयोक्तानि च केशव ! । तुष्टा भवामि तस्याहं त्वय्येषा निश्चला यथा ॥ श्रीभाषितमिदं स्तोत्रं प्रातरुत्थाय यः पठेत् । तद्गृहं विपुलं रम्यं नित्यं भवति नान्यथा ॥ व्याधितो मुच्यते रोगी बद्धो मुच्येत बन्धनात् । आपदस्तस्य नश्यन्ति तमः सूर्य्योदये यथा ॥” इति स्कन्दपुराणे लक्ष्मीकेशवसंवादे लक्ष्मी- चरित्रं समाप्तम् ॥ * ॥
दुर्गा । यथा, —
“स्तुतिः सिद्धिरिति ख्याता श्रिया संश्रयणाच्च वा । लक्ष्मीर्व्वा ललना वापि क्रमात् सा कान्ति- रुच्यते ॥ इति देवीपुराणे ५५ अध्यायः ॥ सम्पत्तिः । शोभा । ऋद्ध्यौषधम् । वृद्धिनामौ- षधम् । फलिनीवृक्षः । इति मेदिनी । मे, २८ ॥ सीता । वीरयोषित् । इति शब्दरत्नावली ॥ स्थलपद्मिनी । हरिद्रा । शमी । द्रव्यम् । मुक्ता । इति राजनिर्घण्टः ॥ मोक्षप्राप्तिः । इति चण्डीटीकायां नागभट्टः ॥ (शोभा । यथा, कुमारे । ३ । ४९ । “कपालनेत्रान्तरलब्धमार्गै- र्ज्यातिःप्ररोहैरुदितैः शिरस्तः । मृणालसूत्राधिकसौकुमार्य्यां बालस्य लक्ष्मीं ग्लपयन्तमिन्दोः ॥”)