संस्कृत-शब्दकोशः

ललामी ललितकान्ता

ललित

वाचस्पत्यम्

ललित ||‍ न० लल—क्त । १ शृङ्गारानुगुणे चेष्टाभेदे “सुकुमार- तयाऽङ्गानां विन्यासो ललितं भवेत्” सा० द० । २ सुन्दरे, ३ ईप्सिते च त्रि० अमरः ४ स्वरभेदे पु० सङ्गी० लड क्त डस्य लः । ५ चालने न० ६ फस्तूर्य्यां ७ नार्य्यां च स्त्री राजनि० । ८ नदीभेदे सा च नदी कालिकापु० ८१ अ० उक्ता । ९ दुर्गायाम् “या दुर्गा सैव ललिता” पद्मपु० पाता० । १० राधासखीभेदे च ।


शब्दकल्पद्रुमः

ललितं || क्ली (लल + क्तः ।)
शृङ्गारभावजक्रिया- विशेषः । इत्यमरः ॥ सुकुमारविधानेन भ्रू- नेत्रादिक्रियासचिवकरचरणाङ्गविन्यासो ललि- तम् । तथा च । “सुकुमाराङ्गविन्यासे मसृणा ललितं भवेत् ॥” तथा, —
“सभ्रूभङ्गं करकिशलयावर्त्तनैरापतन्ती सा लिम्पन्ती ललितललिता लोचनस्याञ्जनेन । विन्यस्यन्ती चरणकमले लीलया स्वैरयाते निःशङ्का च प्रथमवयसा नर्त्तिता पङ्कजाक्षी ॥ भ्रूनेत्रादिक्रियाशालिसुकुमारविधानतः । हस्तपादाङ्गविन्यासस्तरुण्या ललितं विदुः ॥” इत्यन्येऽपि ॥ “अनाचार्य्योपदिष्टं स्याल्ललितं रतिचेष्टितम् ।” इत्यन्ये । ललत् केप्से भावे क्तः । लड विलासे इत्यस्य मनीषादित्वात् डस्य लत्वं वा । इति भरतः ॥ अपि च । “विन्यासभङ्गिरङ्गानां भ्रूविलासमनोहरा । सुकुमारा भवेद्यत्र ललितं तदुदीरितम् ॥” इत्युज्ज्वलनीलमणिः ॥


शब्दकल्पद्रुमः

ललितः || त्रि (लल + क्तः ।)
सुन्दरः । (यथा, रघुः । ८ । १ । “अथ तस्य विवाहकौतुकं ललितं विभ्रत एव पार्थिवः ॥”)
ईप्सितः । इति मेदिनी । ते, १४७ ॥ चलितः । इति बिश्वशब्दरत्नावल्यौ ॥


शब्दकल्पद्रुमः

ललितः || पुं, (लल्यते ईप्स्यते इति । लल + कर्म्मणि क्तः ।)
रागविशेषः । तस्य स्वरूपं यथा, —
“प्रफुल्लसप्तच्छदमाल्यधारी युवातिगौरोऽलसलोचनश्रीः । विनिःसरन् वासगृहात् प्रभाते विलासिवेशो ललितः प्रदिष्टः ॥” तस्य गानसमयो यथा, —
“प्रातर्गेयास्तु देशागो ललितः पठमञ्जरी । विभाषा भैरवी चैव कामोदो गोण्डकीर्य्यपि ॥” इति सङ्गीतदामोदरः ॥



Correction: