वाचस्पत्यम्
लिक्षा(क्का) || स्त्री लिश—गतौ क्स षडकषत्वानि पृषो० वा क्वश्च । १ यूकाण्डे शब्दर० । “जालान्तरगते भानौ यच्चाणु दृश्यते रजः । तैश्चतुर्भिर्भवेल्लिक्षा” २ इत्युक्ते परिमाणभेदे च ।
शब्दकल्पद्रुमः
लिक्षा || क्ली (लिशगतौ + बाहुलकात् सः । सच कित् । इत्युणादिवृत्तौ उज्ज्वलः । ३ । ६६ ।)
यूकाण्डम् । इत्यमरः ॥ लिकि इति भाषा । इत्यमरभरतौ ॥ तत्पर्य्यायः । लिक्का २ लीक्षा ३ लीक्का ४ लिक्षिका ५ । इति शब्दरत्नावली ॥ (यथा, —
“बहुपादाश्च सूक्ष्माश्च यूका लिक्षाश्च नामतः ॥” इति वाभटे निदानस्थाने चतुर्द्दशेऽध्याये ॥)
परिमाणविशेषः । यथा, —
“जालान्तरगते भानौ यच्चाणुर्दृश्यते रजः । तैश्चतुर्भिर्भवेल्लिक्षा लिक्षाषड्भिश्च सर्षपः ॥” इति शब्दचन्द्रिका ॥ सयकारकवर्गद्वितीयवतीत्यपि पाठः ॥