वाचस्पत्यम्
लिख || गतौ भ्वा० पर० सक० सेट् इदित् । लिङ्खति अलिङ्खीत्
वाचस्पत्यम्
लिख || लेखने तुदा० पर० सक० सेट् । लिखति अलेखीत् । कुटादिरप्ययम् तेन लिखनमिति सिद्धम् ।
शब्दकल्पद्रुमः
लिख || इ सृपि । इति कविकल्पद्रुमः ॥ (भ्वा०- पर०-सक०-सेट् ।)
इ, लिङ्ख्यते । सृपि गतौ । इति दुर्गादासः ॥
शब्दकल्पद्रुमः
लिखः || त्रि (लिखतीति । लेख + “इगुपधज्ञेति ।” ३ । १ । १३५ । इति कः ।)
लेखकः । इति लिखधातोः कप्रत्ययेन निष्पन्नम् ॥
शब्दकल्पद्रुमः
लिख || श लेखने । इति कविकल्पद्रुमः ॥ (तुदा०- पर०-सक०-सेट् ।)
श, लिखति पुस्तकं लेखकः । अयं विभाषया कुटादिरिति केचित् । तेन लिखितं विश्वसृजोऽपि शक्तिहानिरिति । लिखितव्यं लेखितव्यं लिखनं इत्यादि सिद्धम् । इति दुर्गादासः ॥