वाचस्पत्यम्
लीलावती || स्त्री लीला + अस्त्यर्थे मतुप् मस्य वः । १ विलास- वत्यां स्त्रियां, भास्कराचार्य्यस्य २ पुत्र्यां, तत्कृते ३ अङ्क- ग्रन्थभेदे मण्डनाचार्य्यस्य ४ भार्य्यायां तन्नामके न्यायशा स्त्रप्रसिद्धे “नाथः सृजतीत्यादिके” न्यायमतसिद्धपदार्थ प्रतिपादके ५ ग्रन्थभेदे, पुराणप्रसिद्धे ६ वेश्याभेदे च ति० त० मत्स्यपु० ।
शब्दकल्पद्रुमः
लीलावती || स्त्री (लीलास्त्यस्या इति । लीला + मतुप् । मस्य वः ।)
केलियुक्ता । विलासवती । शृङ्गारभावचेष्टान्विता । खेलाविशिष्टा । इति लीलाशब्दार्थदर्शनात् ॥ * ॥
भास्कराचार्य्यस्य पत्नी । तत्कृताङ्कग्रन्थः । यथा । गोदावरीतीर- निवासिनो महाराष्ट्रदेशोद्भवस्य श्रीभास्करा- चार्य्यस्य ग्रन्थकर्त्तुः सुप्रिया लीलावती विरह- विक्षिण्णहृदयस्य तां पदैर्लीलावत्या लीला- वतीमिव । इति लीलावतीग्रन्थस्य मङ्गला- चरणश्लोकस्य टीकायां भवेशः ॥ * ॥
(अवि- क्षितनृपतेः स्त्रीविशेषः । यथा, मार्कण्डेये । १२३ । १७ । “लीलावती वीरसुता वीरभद्रसुतानिभा ॥”)
वेश्याविशेषः ॥ यथा, —
“अभिरूपेण सम्पन्नान् घट्टयित्वा विना भृतिम् । धर्म्मकार्य्यमिति ज्ञात्वा न गृह्णाति कथञ्चन ॥ योऽसौ सुवर्णकारश्च दरिद्रोऽप्यथ सत्त्ववान् । न मूल्यमादाद्वेश्यातः सभार्य्य ऋद्धिसंयुतः । सप्तद्वीपपतिर्ज्जातः सूर्य्यायुतसमप्रभः ॥” इति मत्स्यपुराणे लीलावतीवेश्याया लवणाचल- दाने हेमतरुघटकस्य तथाविधफलदर्शनात् । इति तिथ्यादितत्त्वम् ॥ * ॥
न्यायग्रन्थविशेषः । तस्य द्वितीयश्लोको यथा, —
“द्रव्यं नाकुलमुज्ज्वलो गुणगणः कर्म्माधिकं श्लाघ्यते जातिर्व्विप्लुतिमागता न च पुनः श्लाघ्या विशेष- स्थितिः । सम्बन्धः सहजो गुणादिभिरयं यत्रास्तु सत्- प्रीतये सान्वीक्षा नयवेश्मकर्म्मकुशला श्रीन्यायलीला- वती ॥” इति मण्डनमिश्रः ॥