वाचस्पत्यम्
लीला || स्त्री ली—क्विप् लियं लाति ला—क । १ केलौ, २ विलामे ३ शृङ्गारादिजातचेष्टायाम् मेदि० । “अप्राप्तवल्लमसमा- गमनायिकायाः, सख्याःपुरोऽत्र निजचित्तविनोदबुद्ध्या, आलापवेशगतिहास्यविलोकनाद्यैः प्राणेश्वरानुकृतिमाक- लयन्ति लीलाम्” उज्ज्वलमण्युक्ते ४ प्रियानुकरणे च ।
शब्दकल्पद्रुमः
लीला || स्त्री (लयनमिति । ली + सम्पदादित्वात् क्विप् । लियं लातीति । ला + कः ।)
केलिः । विलासः । शृङ्गारभावचेष्टा । इति मेदिनी । ले, ४७ ॥ खेला । इति विश्वः ॥ (यथा, भाग- वते । १ । १ । १८ । “अथाख्याहि हरेर्धीमन्नवतारकथाः शुभाः । लीलाविदधतः स्वैरमीश्वरस्यात्ममायया ॥”)
अलब्धप्रियसमागमया स्वचित्तविनोदनार्थं प्रियस्य या वेशगतिदृष्टिहसितभणितैरनुकृतिः क्रियते सा लीला । तथा च । “अप्राप्तवल्लभसमागमनायिकायाः सख्याः पुरोऽत्र निजचित्तविनोदबुद्ध्या । आलापवेशगतिहास्यविलोकनाद्यैः प्राणेश्वरानुकृतिमाकथयन्ति लीलाम् ॥” इति । प्रियानुकरणं लोला । यथा तेनोदितं वदति याति तथा तथासावित्यादीत्यन्योऽपि । ली ङ य ओ श्लिषि नाम्नीति लक् लीला । इत्यमर- टीकायां भरतः ॥ * ॥
सा प्रकटाप्रकटभेदेन द्बिविधा यथा, —
“प्रकटाप्रकटा चेति लीला सेयं द्विधोच्यते ।” इति पद्मपुराणम् ॥ तथा हि । “सदानन्तैः प्रकाशैः स्वैर्लीलाभिश्च स दीव्यति । तत्रैकेन प्रकाशेन कदाचिज्जगदन्तरे ॥ सहैव स्वपरीवारैर्ज्जन्मादि कुरुते हरिः । कृष्णभावानुसारेण लीलाख्या शक्तिरेव सा ॥ तेषां परिकराणाञ्च तं तं भावं विभावयेत् । प्रपञ्चगोचरत्वेन सा लीला प्रकटा स्मृता ॥ अन्यास्त्वप्रकटा भान्ति तादृश्यस्तदगोचराः । तत्र प्रकटलीलायामेव स्यातां गमागमौ ॥ गोकुले मथुरायाञ्च द्वारकायाञ्च शार्ङ्गिणः । यास्तत्र तत्राप्रकटास्तत्र तत्रैव सन्ति ताः ॥” इति श्रीभागवतामृतम् ॥