वाचस्पत्यम्
लेह || पु० लिह—घञ् । १ आहारे २ आस्वादे जिह्वया रसा- दानव्यापारभेदे (चाटा) च हेमच० । भावे ल्युट् । लेहन- मप्यत्र न० ।
शब्दकल्पद्रुमः
लेहः || पुं, (लेहनमिति । लिह् + घञ् ।)
आहारः । भक्षणम् । इति हेमचन्द्रः ॥ तत्- पर्य्यायः । स्वादनम् २ रसनम् ३ स्वदनम् ४ स्वदिः ५ । इति राजनिर्घण्टः ॥ (यथा, बृहत्- संहितायाम् । ५ । ४३ । “सव्यापसव्यलेहग्रसननिरोधावमर्द्दनारोहाः । आघ्रातं मध्यतमस्तमोऽन्य इति ते दश ग्रासाः ॥” कर्म्मणि घञ् । रसः । यथा, सुश्रुते । १ । ४४ । “पचेल्लेहं सिता क्षौद्रं पलार्द्धकुडवान्वितम् ॥” लेढीति । लिह् + पचाद्यच् । लेहनकर्त्तरि, त्रि । यथा, भट्टिः । ६ । ८२ । “दह्येऽहं मधुनो लेहैर्द्दावैरुग्रैर्यथा गिरिः ॥” अवलेहः । तत्पर्य्यायो यथा, —
“क्वाथस्य स्यात् पुनः पाकात् घनत्वं सारस- क्रिया । सोऽवलेहश्च लेहः स्यात्तन्मात्रा स्यात् पलो- न्मिता ॥ सिता चतुर्गुणा कार्य्या चूर्णाच्च द्विगुणो गुडः । द्रवं चतुर्गुणं दद्यादिति सर्व्वत्र निश्चयः ॥” इति मध्यखण्डेऽष्टमेऽध्याये शार्ङ्गधरेणोक्तम् ॥”)