संस्कृत-शब्दकोशः

वक्तव्य वक्त्र

वक्तृ

वाचस्पत्यम्

वक्तृ ||‍ त्रि० उचितं बहु वक्ति वच—तृच् । १ उचितबहुवादिनि अमरः स्त्रियां ङीप् । २ पण्डिते पु० मेदि० ।


शब्दकल्पद्रुमः

वक्ता || [ऋ] त्रि, (वच् + तृच् ।)
योवक्तुं जानाति सः । इति भरतः ॥ औचित्यात् बहु विशिष्टं वदति । इति मुकुटः ॥ (यथा, हितोपदेशे । “भद्रं कृतं कृतं मौनं कोकिलैर्ज्जलदागमे । दर्दुरा यत्र वक्तारस्तत्र मौनं हि शोभनम् ॥”)
तत्पर्य्यायः । वदः २ वदावदः ३ । इत्यमरः । ३ । १ । २५ ॥ वदान्यः ४ वप्ता ५ । इति जटा- धरः ॥ सुष्ठुवक्ता । इति भरतः ॥ बहुभाषी । इत्येके । तत्पर्य्यायः । वाचोयुक्तिपटुः २ वाग्मी ३ वावदूकः ४ । इत्यमरः ॥ वचक्नः ५ सुवचाः ६ प्रवाक् ७ । इति जटाधरः ॥ पण्डितः । इति मेदिनी । ते, ५३ ॥



Correction: