वाचस्पत्यम्
वक्त्र || न० वक्त्यऽनेन वच—करणे ष्ट्रन् । १ मुखे अमरः । २ तगरमूले शब्दर० । ३ वसनभेदे मेदि० । वक्त्रं “नाद्या- न्नसौ स्यातामब्धेर्योऽनुष्टुभि ख्यातम्” वृ० र० उक्ते ४ छन्दोभेदे च ।
शब्दकल्पद्रुमः
वक्त्रं || क्ली (वक्ति अनेनेति । वच् + “गुधृवी- पचिवचियमिसदिक्षदिभ्यस्त्रः ।” उणा० ४ । १६६ । इति त्रः ।)
मुखम् । इत्यमरः । २ । ६ । ८९ ॥ (यथा, मनौ । ८ । २७२ । “धर्म्मोपदेशं दर्पेण विप्राणामस्य कुर्व्वतः । तप्तमासेचयेतैलं वक्त्रे श्रोत्रे च पार्थिवः ॥”)
तगरमूलम् । इति शब्दमाला ॥ वस्त्रभेदः । इति मेदिनी । रे, ८४ ॥ छन्दोविशेषः । इति हेमचन्द्रः ॥ तस्य लक्षणादि यथा, —
“भवत्यर्द्धसमं वक्त्रं विषमञ्च कदाचन । तयोर्द्वयोरुपान्तेऽत्र च्छब्दस्तदधुनोच्यते ॥ वक्त्रं युग्भ्यां मगौ स्यातामब्देर्योऽनुष्टुभिः ख्यातम् ॥” अत्र द्विरावर्त्त्य श्लोकः पूरयितव्यः । “वक्त्राम्भोजं सदा स्मेरं चक्षुर्नीलोत्पलं फुल्लम् । बल्लवीनां मुरारातेश्चेतो भृङ्गं जहारोच्चैः ॥” इति छन्दोमञ्जरी ॥