वाचस्पत्यम्
वचस् || न० वच—म्रसुन् । वाक्ये वाक्पदार्थे अमरकोषः ।
शब्दकल्पद्रुमः
वचः || [स्] क्ली, (उच्यते इति । वच् + “सर्व्व- धातुभ्योऽसुन् ।” उणा० ४ । १८९ । इत्यसुन् ।)
वाक्यम् । इत्यमरः । १ । ६ । १ ॥ (यथा, रघौ । २ । ४१ । “इति प्रगल् भं पुरुषाधिराजो मृगाधिराजस्य वचो निशम्य । प्रत्याहतास्त्रो गिरिशप्रभावा- दात्मन्यवज्ञां शिथिलीचकार ॥”)