संस्कृत-शब्दकोशः

वत्स वत्सकबीजं

वत्सक

वाचस्पत्यम्

वत्सक ||‍ न० वत्स इव इदार्थे कन् । १ पुष्पकासीसे राजनि० २ कुटजे अमरः । ३ इन्द्रयवे च राजनि० ।


शब्दकल्पद्रुमः

वत्सकं || क्ली (वत्स + संज्ञायां इवार्थे वा कन् ।)
पुष्पकासीसम् । इति राजनिर्घण्टः ॥ (विव- रणमस्य पुष्पकासीसशब्दे ज्ञातव्यम् ॥)


शब्दकल्पद्रुमः

वत्सकः || पुं, (वत्म + कन् ।)
कुटजः । इत्यमरः ॥ (अस्य पर्य्यायो यथा, —
“वृक्षकः शक्रपर्य्यायो वत्सको गिरिमल्लिका । कुटजस्तत्फलञ्चेन्द्रयवश्चापि कलिङ्गकः ॥” इति वैद्यकरत्नमालायाम् ॥ तथान्यः पर्य्यायः । “कुटजः कूटजः कौटो वत्सको गिरिमल्लिका । कालिङ्गः शक्रशाखी च मल्लिकापुष्प इत्यपि ॥” इति भावप्रकाशस्य पूर्ब्बखण्डे प्रथमे भागे ॥)
इन्द्रयवः । इति राजनिर्घण्टः ॥



Correction: