वाचस्पत्यम्
वत्सतर || पुंस्त्री० क्षुद्रः वत्सः अल्पत्वे तरप् । १ क्षुद्रवत्से अप्राप्तदमनकाले गवादौ अमरः स्त्रियां ङीप् । वत्सतरी
शब्दकल्पद्रुमः
वत्सतरः || पुं, (प्रथमवया वत्सः । “वत्सोक्षाश्वर्षभेभ्य- श्चेति ।” ५ । ३ । ९१ । इति ष्टरच् ।)
प्राप्तदमनकाल- गवः । दोयाने वाछुर इति भाषा । तत्पर्य्यायः । दम्यः २ । इत्यमरः । २ । ९ । ६२ ॥ दुर्द्दान्तः ३ गडिः ४ । इति राजनिर्घण्टः ॥