संस्कृत-शब्दकोशः

वनच्छाग वनजा

वनज

वाचस्पत्यम्

वनज ||‍ न० वने जलेऽरण्ये वा जायते जन—ड । १ पद्मे २ मुस्तकभेदे ३ वनशूरणे पु० राजनि० ४ गजे विश्वः । ५ अश्वगन्धायां ६ गन्धपत्त्रायां ७ वनकार्पास्यां ८ वनो- पोदक्याम् ९ मिश्रेयायां १० ऐन्द्रे स्त्री राजनि० । ११ मुद्र- पर्ण्यां च स्त्री मेदि० । १२ वनजातमात्रे त्रि० ।


शब्दकल्पद्रुमः

वनजं || क्ली (वने जले जायते इति । जन् + डः ।)
अम्बुजम् । इति मेदिनी । जे, २८ ॥ (यथा, रघुः । ५ । ७३ । “दीर्घेष्वमी नियमिताः पटमण्डपेषु निद्रां विहाय वनजाक्ष ! वनायुदेश्याः । वक्त्रोष्मणा मलिनयन्ति पुरोगतानि लेह्यानि सैन्धवशिलाशकलानि वाहाः ॥” जलजाते वनोद्भवे च त्रि । यथा, रामा- यणे । २ । ४५ । ७ । “दारूणि परिभिन्नानि वनजैरुपजीविभिः ॥”)


शब्दकल्पद्रुमः

वनजः || पुं, (वने जले अरण्ये वा जायते इति । जन् + डः ।)
मुस्तकः । इति मेदिनी । जे, २८ ॥ गजः । इति विश्वः ॥ वनशूरणः । इति राज- निर्घण्टः ॥ (तुम्बुरुफलम् । तत्पर्य्यायो यथा, —
“तुम्बुरुः सौरवः सौरो वनजः सानुजोऽन्धजः ॥” इति भावप्रकाशस्य पूर्ब्बखण्डे प्रथमे भागे ॥)



Correction: