शब्दकल्पद्रुमः
वन्दना || स्त्री (वन्द + “घट्टिवन्दिविदिभ्यश्चेति वाच्यम् ।” ३ । ३ । १०७ । इत्यस्य वार्त्तिकोक्त्या युच् । टाप् ।)
स्तुतिः । तत्पर्य्यायः । समीची २ । इति त्रिकाण्डशेषः ॥ होमभस्मना तिलकम् । यथा, —
“ऐशान्यामाहरेद्भस्म श्रुचा वाथ श्रुवेण वा । वन्दनां कारयेत्तेन शिरःकण्ठांशकेषु च । कश्यप्रस्येतिमन्त्रेण यथानुक्रमयोगतः ॥” इति तिथ्यादितत्त्वे वशिष्ठवचनम् ॥