संस्कृत-शब्दकोशः

वपुःस्रव वप्र

वप्तृ

वाचस्पत्यम्

वप्तृ ||‍ पु० वप—तृच् । १ जनके २ कृषीवले च मेदि० ३ वीजादि- वापके त्रि० ।


शब्दकल्पद्रुमः

वप्ता || [ऋ] त्रि, (वपतीति ॥ वप् बीलोप्तौ + तृच् ।)
वापकः । इति मेदिनी ॥ (कर्षकः । यथा, मनुः । ३ । १४२ । “यथेरिणे बीजमुप्त्वा न वप्ता लभते फलम् । तथानृचे हविर्द्दत्त्वा न दाता लभते फलम् ॥”)


शब्दकल्पद्रुमः

वप्ता || [ऋ] पुं, (वपति बीजमिति । वप् + तृच् ।)
जनकः । इति मेदिनी ॥ कविः । इति जटाधरः ॥ (नापितः । यथा, ऋग्वेदे । १८ । १४२ । ४ । “यदा ते वातो अनुवाति शौचि- र्वप्तेव श्मश्रु वपसि प्र भूम ॥” “यथा वप्ता नापितो वपति मुण्डयति तथा भूम भूमिं प्रवपसि प्रकर्षेण मुण्डयसि ॥” इति तद्भाष्ये सायणः ॥)



Correction: