शब्दकल्पद्रुमः
वम् || व्य, (उ + अ + म् ।)
शिवपूजान्ते कपोल- वाद्यविशेषः । तत्तु उकाराकारमकारात्मकं शिवप्रणवस्वरूपम् । यथा, —
“डिम् डिम् डिम् डिम् डिडिम् डिम् डिडिमरु डमरुं वादयन् सूक्ष्मनादं वम् वम् वम् वम् ववम् वम् भ्रमितदशशिरा- स्तालमानेन नृत्यन् । कर्पूरासिक्तभस्मापटितपटुजटालम्बिरुद्राक्ष- मालो मायायोगी दशास्यो रघुरमणपुरः प्राङ्गणे प्रादुरासीत् ॥” इति रामलीलामृतकाव्यम् ॥ * ॥
वरुणबीजम् । यथा । नासापुटौ धृत्वा वमिति वरुणबीजस्य चतुःषष्टिवारजपेन कुम्भकं कृत्वा तस्मात् ललाटस्थचन्द्राद्गलितसुधया मातृका- वर्णात्मिकया समस्तं देहं विरचय्य लमिति पृथ्वीबीजस्य द्वात्रिंशद्वारजपेन दहं सुदृढं विचिन्त्य दक्षिणेन वायुं रेचयेत् । इति भूत- शुद्धिप्रकरणे तन्त्रसारः ॥