संस्कृत-शब्दकोशः

वमी वम्भारव

वम्

वम् (अव्यय)


अर्थ−
जस्तो/समान/एकनासको ।


टुवम उद्गिरणे


गणः- भ्वादिः
कर्मकः-सकर्मकः
इट्-सेट्
पदम्-आत्मनेपदम्
कर्तरि लटि- वमति

अर्थ−
१. वान्ता गर्नु, वमन गर्नु ।

कृदन्तरूपमाला

  • 1“टु वम उद्गिरणे” 2 ‘उद्गिरणे = वमने’ इति काशकृत्स्नः।
  • ज्वलादिः, मिच्च।
  • ‘उद्गिरणम् = अन्तर्गतस्य मुखेन निःसारणम्’ इति मा।
  • धा।
  • वृत्तिः।
  • ‘-- भुक्तस्योर्ध्वगतिः’ इति क्षीरस्वामी।
  • ‘उदित् इति काशकृत्स्नपाठः’ इति तरङ्गिण्याम्।
  • प्रकृतकाशकृत्स्नधातुपाठे तु ‘डु वम--’ इत्येव दृश्यते।
  • ‘काश्यपादीनामपि उदित्पाठः’ इति मा।
  • धा।
  • वृत्तिः।
  • 3 वामकः-मिका, वामकः-मिका, 4 वमकः-मिका, विवमिषकः-षिका, वंवमकः-मिका;
  • 5 वमिता-त्री, वामयिता-वमयिता-त्री, विवमिषिता-त्री, वंवमिता-त्री;
  • वमन्-न्ती, वामयन्-वमयन्-न्ती, विवमिषन्-न्ती;
  • -- वमिष्यन्-न्ती-ती, वामयिष्यन्-न्ती-ती, विवमिषिष्यन्-न्ती-ती;
  • -- -- वामयमानः-वमयमानः, -- वंवम्यमानः, वंवमिष्यमाणः;
  • वमितम्-तः-तवान्, 6 वान्तम्-वान्तः-वान्तवान्, वमितः, विवमिषितः, वंवमितः-तवान्;
  • वमः- 7 वामः, 8 वमी, 9 वमथुः 10, वामः-वमः वामी, 11 वामनः, विवमिषुः, वंवमः;
  • इत्यादीनि रूपाणि सर्वाण्यपि भौवादिकचनतिवत् 12 ऊह्यानि।
  • 13 वम्यम्, वान्तिः, 14 वमित्वा-वान्त्वा इमानि रूपाण्यधिकान्यत्रेति विशेषः।

प्रासङ्गिक्यः

  • ↑ (१५५८)
  • ↑ (१-भ्वादिः-८४९। सक। सेट्। पर।)
  • ↑ ४। ‘नोदात्तोपदेशस्य मान्तस्य--’ (७-३-३४) इत्यादिना वृद्धिनिषेधे प्राप्ते ‘अनाचमि- कमिवमीनाम्--’ (वा। ७-३-३४) इति वार्त्तिकात् वृद्धिनिषेधो न। तेन ण्वुलि वामकः इति रूपम्।
  • ↑ ५। ‘ग्लास्नावनुवमाम्--’ (ग। सू। भ्वादिः) इति अनुपसृष्टस्य धातोः मित्त्वं विकल्पेन भवति। ततः ‘मितां ह्रस्वः’ (६-४-९२) इति ह्रस्वः, तेन ण्यन्ते सर्वत्र रूपद्वयं बोध्यम्।
  • ↑ [पृष्ठम्१२०२+ ३०]
  • ↑ १। ‘आदितश्च’ (७-२-१६) इति चकारस्यानुक्तसमुच्चयार्थकत्वात् निष्ठायामनिट्त्वम् इति काशिकादौ। “‘धारानिपातैः सह किन्तु वा-तः चन्द्रोऽयमित्यार्ततरं रसासे’ इति पाणिनिः” इति प्रक्रियासर्वस्वटीकायाम् (पु। २६)। ‘वम्जप्- व्याश्वसो निष्ठायाः इड् वा इति केचित्’ इत्युक्त्या वमितः-वान्तः इति’ प्रक्रियाकौमुदी।
  • ↑ २। कर्तरि ‘ज्वलितिकसन्तेभ्यो णः’ (३-१-१४०) इति विकल्पेन णप्रत्ययः। अचो- ऽपवादः। तेन रूपद्वयम्।
  • ↑ ३। ‘जिदृक्षिविश्रीण्वम--’ (३-२-१५७) इत्यादिना तच्छीलादिषु कर्तृषु इनिप्रत्यये रूपमेवम्।
  • ↑ ४। भावादौ दवितो धातोः ‘ट्वितोऽथुच्’ (३-३-८९) इति अथुच्प्रत्यये रूपमेवम्। ‘पुमांस्तु वमथुः समाः’ इत्यमरः।
  • ↑ आ। ‘सरक्तं वमथुं केचिद् भ्राजथुं न च केचन।।’ भ। का। ४-४३।
  • ↑ ५। वृद्धिपक्षे ण्यन्तात् नन्द्यादित्वात् (३-१-१३४) कर्तरि ल्युः। वामनः = लघुपरिमाणः विष्णोरवतारः।
  • ↑ (४९४)
  • ↑ ६। ‘पोरदुपधात्’ (३-१-९८) इति यत्प्रत्यये रूपम्। ण्यतोऽपवादः।
  • ↑ ७। उदित्पक्षे क्त्वायाम् ‘उदितो वा’ (७-२-५६) इति इड्विकल्पः। इडभावपक्षे ‘अनुनासिकस्य--’ (६-४-१५) इति दीर्घे वान्त्वा इति रूपम्। तेन रूपद्वयं बोध्यम्।



Correction: