वाचस्पत्यम्
वराह || पुस्त्री० वराय अभीष्ठाय मुस्तादिलाभाय आहन्ति खनति भूमिम् आ + हन—ड । १ शूकरे अमरः स्त्रियां ङीष् । २ यज्ञवराहाख्ये भगवतोऽवतारभेदे पु० ३ पर्वत- भेदे ४ मुस्तके ५ मानभेदे मेदि० । ६ शिशुमारे ७ वाराही- कन्दे पु० राजनि० ८ अष्टादशद्वीपमध्ये द्वीपभेदे च । ||“गन्धर्वो वरुणः सौम्यो वराहः कङ्क एव च । कुमु- दस कसेरुश्च नागो भद्रारकस्तथा । चन्द्रेन्द्र मलयाः शङ्ख यवाङ्गक गभस्तिपान् । ताम्राङ्गस कुमारी च तत्र द्वीपा दशाष्टभिः” शब्दमा० ।
शब्दकल्पद्रुमः
वराहः || पुं, (वरान् आहन्ति इति दुर्गः । कृत्० ४ । ३ । ४९ । हन् + डः ।)
पशु- विशेषः । वरा इति भाषा । तत्पर्य्यायः । शूकरः २ घृष्टिः ३ कोलः ४ पोत्री ५ किरिः ६ किटिः ७ द्रंष्ट्री ८ घोणी ९ स्तब्घरोघ्ना १० क्रोडः ११ भूदारः १२ । इत्यमरः ॥ किरः १३ मुस्तादः १४ मुखलाङ्गूलः १५ । इति जटा- धरः ॥ स्थूलनासिकः १६ दन्तायुधः १७ वक्र- वक्त्रः १८ दीर्घतरः १९ आखनिकः २० भूक्षित् २१ बहुसूः २२ । इति शब्दरत्ना- वली ॥ अस्य मांसस्य गुणाः । वृष्यत्वम् । वातघ्नत्वम् । बलवर्द्धनत्वञ्च । इति राजवल्लभः ॥ बद्धमूत्रत्वम् । विरूक्षणत्वञ्च । इति तत्रैव पाठान्तरम् । अन्यत् शूकरशब्दे द्रष्टव्यम् ॥ * ॥
तन्मांसं विष्णवे न देयम् । यथा । “नाभक्ष्यं नैवेद्यार्थे भक्ष्येष्वजामहिषीक्षीरं वर्ज्जयेत् । पञ्चनखमत्स्यवराहमांसानि चेति ।” इत्याह्रिक- तत्त्वधृतविष्णुसूत्रम् ॥ * ॥
वराहमांसं भुक्त्वा विष्णुपूजादिनिषेधो यथा, — वराह उवाच । “भुक्त्वा वाराहमांसन्तु यो वै मामुपसर्पति । पतनं तस्य वक्ष्यामि यथा भवति सुन्दरि ! ॥ वराहो दश वर्षाणि भूत्वा तु चरते वने । व्याधो भूत्वा महाभागे समाः सप्त च सप्ततिः ॥ कृमिर्भूत्वा समाः सप्त तिष्ठते तस्य पुष्कले । अथोच्चैर्म्मूषिको भूत्वा वर्षाणाञ्च चतुर्द्दश ॥ एकोनविंशवर्षाणि यातुधानश्च जायते । शल्लकश्चाष्टवर्षाणि जायते भवने बहु ॥ व्याघ्रस्त्रिं शतिवर्षाणि जायते पिशिताशनः । एष संसारिताङ्गत्वा वाराहामिषभक्षकः ॥ जायते विपुले सिद्धे कुले भागवतस्तथा । हृषीकेशवचः श्रुत्वा सर्व्वसम्पूर्णलक्षणम् ॥ शिरसा चाञ्जलिं कृत्वा वाक्यञ्चेदमुवाच ह । एतन्मे परमं गुह्यं तव भक्तसुखावहम् । वाराहमांसभक्षास्तु येन मुच्यन्ति किल्वि- षात् ॥ वाराह उवाच । तरन्ति मानवा येन तिर्य्यक्संसारसागरात् । गोमयेन दिनं पञ्च कणाहारेण सप्त वै ॥ पानीयन्तु ततो भुक्त्वा तिष्ठेत् सप्तदिनं ततः । अक्षारलषणं सप्त शक्तुभिश्च तथा त्रयः ॥ तिलभक्षो दिनान् सप्त सप्त पाषाणभक्षकः । पयो भुक्त्वा दिनं सप्त कारयेच्छुद्धिमात्मनः ॥ शान्तदान्तपराः कृत्वा अहङ्कारविवर्ज्जिताः । दिनान्येकोनपञ्चाशच्चरेत कृतनिश्चयः ॥ प्रमुक्तः सर्व्वपापेभ्यः ससंज्ञो विगतज्वरः । कृत्वा तु मम कर्म्माणि मम लोकाय गच्छति ॥” इति वाराहमांसभक्षणापराधप्रायश्चित्तम् । इति वाराहपुराणम् ॥ * ॥
वन्यवराहमांसं श्राद्धादौ विहितम् । यथा अश्नन्तीत्यनुवृत्तौ हारीतः । महारण्ववासि- नश्च वराहांस्तथेति । एवञ्च विवदन्ते अग्रा- म्यशूकरांश्चेति वशिष्ठोक्तं श्वेताश्वेतया व्यव- स्थितम् । कल्पतरुस्तु । श्राद्धे नियुक्तानि युक्त- तयेति । विष्णूपासकस्य सर्व्वथा निषेधः । यथा वाराहे भगवद्वाक्यम् । “भुक्त्वा वाराहमांसन्तु यस्तु मामुपसर्पति । वराहो दशवर्षाणि भूत्वा वै चरते वने ॥” इत्येकादशीतत्त्वम् ॥ * ॥
याज्ञवल्क्यः । “हविष्यान्नेन वै मासं पायसेन च वत्सरम् । मास्त्यहारिणकौरभ्रशाकुनिच्छानपार्षतैः ॥ ऐणरौरववाराहशशैर्मांसैर्यथाक्रमम् । मासवृद्ध्याभितृप्यन्ति दत्तेनेह पितामहाः ॥” इति श्राद्धतत्त्वम् ॥ * ॥
विष्णोरवतारविशेषः । यथा, — सायम्भुव उवाच । “कुत्र प्रजाः स्थास्यन्ति पृथिवी तावत् प्रलया- र्णवे मग्ना तस्या उद्धरणे यत्नं कुरु । इति श्रुत्वा ब्रह्मा भगवन्तं ध्यातवान् । ध्यायतस्तस्य नासा विवरात् अङ्गुष्ठप्रमाणो वराहपोतो निरगात् । स च आकाशस्थः सन् क्षणमात्रेण पर्व्वतोपमो बभूव । तं विष्णुं मत्वा ब्रह्मा तुष्टाव । स च तेन स्तुतः प्रलयार्णवजलमध्ये प्रविश्य दन्ताग्रेण पृथ्वीमुद्धृत्य निजधारणशक्त्या संस्थाप्य अन्त- र्हितो बभूव । ततः पृथिव्यां राजा सायम्भुव- मनुरासीत् ।” इति श्रीभागवतमतम् ॥ * ॥
तद- वतारकर्त्तृकहिरण्याक्षवधो यथा, —
“वराहपर्व्वतो नाम यः पुरा हरिनिर्म्मितः । स एव भूतो भगवानाजगामासुरान्तिकम् ॥ ततश्चन्द्रप्रतीकाशमगृह्णाच्छङ्खमुत्तमम् । सहस्रारं ततश्चक्रं सूर्य्यवह्रिसमप्रभम् ॥ यो वैकुण्ठः सुरेन्द्राणामनन्तो भोगिनामपि । विष्णुर्यो योगविदुषां यो यज्ञो यज्ञकर्म्मणाम् ॥ विश्वे यस्य प्रसादेन सवनस्था दिवौकसः । आज्यं महर्षिभिर्द्दत्तमश्नुवन्ति सुधाहुतम् ॥ ततो दैत्यद्रवकरं पुराणं शङ्खमुत्तमम् । वक्त्रेण दध्मौ वेगेन विक्षिपन् दैत्यजीवितम् ॥ ततः संरक्तनयनो हिरण्याक्षो महासुरः । कोऽयन्त्विति वदन् रोषान्नारायणमुदैक्षत ॥ वाराहरूपिणं देवं स्थितं पुरुषविग्रहम् । शङ्खचक्रोद्यतकरं देवानामार्त्तिनाशनम् ॥ रराज शङ्खचक्राभ्यां ताभ्यामसुरसूदनः । सूर्य्याचन्द्रमसोर्मध्ये पौर्णमास्यामिवाम्बुदः ॥ ततो हिरण्याक्षमुखाश्च सर्व्वे समाद्रवन् दैत्यगणाः सुरेशम् । निहन्तुकामाः सहसा वराहं गृहीतशस्त्रा बलपूर्णदर्पाः ॥ तैर्व्वध्यमानोऽतिशयेन शस्त्रै- र्दैत्यासुरैर्दानवपुङ्गवैश्च । नासौ चचालासुरवृन्द हा वै मेघैः सुवृष्टा इव मन्दराद्रिः ॥ दैत्यस्ततोऽसौ नृवराहमाहवे निपातयामास रुषा ज्वलन्तीम् । शक्तिं यथा विद्युतमाशु कुञ्जे प्रवर्षमाणोऽपि गिरिं सुमेघः ॥ स हन्यमानो गदयाप्रमेयः प्रोवाच दैत्यं नृवराहमूर्त्तिः । प्रजापतेः सेतुमिमं निहत्य व्रजेच्च क्व स्वस्ति यथा सुरेन्द्रः ॥ बलं समासाद्य परैरजेयं विनाशयिष्याम्यहमेवमाजौ । दैत्यांस्त्वया साकमतो हि देवान् हृतस्वकीयान् सुनयोपपन्नान् ॥ संस्थापयिष्यामि न संशयोऽत्र दैत्येन्द्रदर्पः क्व नु मत्ममीपे ॥ एवं ब्रुवति वाक्यन्तु विष्णोर्वक्षस्यपातयत् । स बाहुशतमुद्यम्य सर्व्वप्रहरणं रणे ॥ दानवाश्चापि समरे मयतारपुरोगमाः । उद्यतायुधनिस्त्रिंशाः सर्व्वे तं समुपाद्रवन् ॥ स ताड्यमानोऽतिवलैर्दैत्यैः सन्नायुधोद्यतैः । न चचाल वराहस्तु मैनाक इव पर्व्वतः ॥ क्रोधसंरक्तनयनः शङ्खचक्रधरो हरिः । व्यवर्द्धत स वेगेन व्याप्नुवन् सर्व्वतो दिशम् ॥ तं जयायासुरेन्द्राणां वर्द्धमानं नभस्तले । ऋषयः सह गन्धर्व्वैस्तुष्टुवुर्मधुसूदनम् ॥ दीप्ताग्निसदृणं घोरं दर्शनीयसुदर्शनम् । सुवर्णरेणुपर्य्यन्तं वज्रनाभं भयावहम् ॥ मेदोऽस्थिमज्जारुधिरैः सिक्तं दानवसम्भवैः । अद्वितीयं प्रहारैस्तु क्षुरपर्य्यन्तमण्डलम् ॥ स्रग्दाममालाविततं कामगं कामरूपिणम् । चक्रमुद्यम्य समरे वाराहः स्वेन तेजसा ॥ चिच्छेद बाहूंश्चक्रेण हिरण्याक्षस्य कं तथा ॥ स छिन्नबाहुर्विशिरा न प्राकम्पत दानवः । कवन्धवत्स्थितः संख्ये विशाख इव पादपः ॥ ततः स्थितस्यैव शिरस्तस्य भूमावपातयत् । हिरण्मयं रुक्मचित्रं मेरोः शृङ्गमिवोत्तमम् ॥ हिरण्याक्षे हते दैत्या ये शेषाश्चैव दानवाः । सर्व्वे तस्य भयात् त्रस्ता जग्मुरार्त्ता दिशो दश ॥” इति वह्रिपुराणम् ॥ अथ वराहावतारकारणम् । शरभरूपिमहा- देवकर्त्तृकतच्छरीरनाशश्च । “त्रैलोक्यमखिलं दग्धं यदा कालाग्निना तदा । अनन्तः पृथिवीं त्यक्त्वा विष्णोरन्तिकमागतः ॥ तेन त्यक्ता तु पृथिवी क्षणमात्रादधोगता । ततो वराहरूपेण निमग्नां पृथिवीं जले । मग्नां समुद्दधाराशु न्यधात् तत्सलिलोपरि ॥ वराहोऽपि स्वयं गत्वा लोकालोकाह्वयं गिरिम् । वाराह्या सह रेमे स पृथिव्या चारुरूपया ॥ स तया रममाणस्तु सुचिरं पर्व्वतोत्तमे । नावाप तोयं लोकेशः पोत्री परमकामुकः ॥ पृथिव्याः पोत्रिरूपाया रमयन्त्यास्ततः सुताः । त्रयो जाता द्बिजश्रेष्ठास्तेषां नामानि वै शृणु ॥ दुर्वृत्तः कनको घोरः सर्व्व एव महाबलाः । स तैः पुत्त्रैः परिवृतो वाराहो भार्य्यया स्वया ॥ रममाणस्तदा कायत्यागं नैवागणद्धिया । इतस्ततश्च शिशुभिः क्रीडद्भिः पोत्रिभिस्तदा ॥ जगन्ति तत्र भग्नानि नदीः कल्पतरूंस्तथा । त्तो देवगणाः सर्व्वे सहिता देवयोनिभिः ॥ शक्रेण सहिता मन्त्रं चक्रुः सम्यक् जगद्धितम् ॥ ततो निश्चित्य ते सर्व्वे शक्राद्या मुनिभिः सह । शरण्यं शरणं जग्मुर्नारायणमजं विभुम् ॥ तं समासाद्य गोविन्दं वासुदेवं जगत्पतिम् । प्रणम्य सर्व्वे त्रिदशास्तुष्टुवुर्गरुडध्वजम् ॥ देवा ऊचुः । नमस्ते देवदेवेश ! जगत्कारणकारण । कालस्वरूपिन् भगवन् प्रधानपुरुषात्मक ॥ इति स्तुतो देवदेवो भूतभावनभावनः । सेन्द्रैर्देवगणैरूचे तान् सर्व्वान् मेघनिस्वनः ॥ श्रीभगवानुवाच । यदर्थमागता यूयं यद्वो भयमुपस्थितम् । यत्र यद्वा मया कार्य्यं तद्देवास्तूर्णमुच्यताम् ॥ देवा ऊचुः । शीर्य्यते वसुधा नित्यं क्रीडया यज्ञपोत्रिणः । लोकाश्च सर्व्वे संक्षुब्धा नाप्नुवन्त्युपशान्तिताम् ॥ इति तेषां निगदतां श्रुत्वा वाक्यं जनार्द्दनः । उवाच शङ्करं देवं ब्रह्माणञ्च विशेषतः ॥ यत्कृते देवताः सर्व्वाः प्रजाश्च सकला इमाः । प्राप्नुवन्ति महद्दुःखं शीर्य्यते सकलं जगत् ॥ वाराहं तदहं कायं त्यक्तुमिच्छामि शङ्कर । निदेशशक्तं तत् त्यक्तुं स्वेच्छया नहि शक्यते ॥ त्वं त्याजयस्व तत् कायं यत्रात्मा शङ्कराधुना । त्वमाप्यायस्व तेजोभिर्ब्रह्मन् स्मरहरं मुहुः ॥ आप्यायन्तु तदा देवाः शङ्करो हन्तु पोत्रिणम् । रजस्वलायाः संसर्गात् विप्राणां मारणात् तथा ॥ कायः पापकरो भूतस्तं त्यक्तुं मुह्यतेऽधुना । प्रायश्चित्तैरुपेतैर्यः प्रायश्चित्तमहं ततः । चरिष्यामि तदर्थं मे तनुर्यत्नेन पात्यताम् ॥ प्रजा पाल्या मम सदा या हि सीदति नित्यशः । मत्कृते प्रत्यहं तस्मात् त्यक्ष्ये कायं प्रजाकृते ॥ श्रीमार्कण्डेय उवाच । इत्युक्तौ वासुदेवेन तदा च ब्रह्मशङ्करौ । त्वया यथोक्तं तत् कार्य्यमिति गोविन्दमूचतुः ॥ वासुदेवोऽपि तान् सर्व्वान् विसृज्य त्रिदशां- स्तदा । वाराहं तेजसा हर्त्तुं स्वयं ध्यानपरोऽभवत् ॥ शनैः शनैर्यदा तेज आहरत्येष माधवः । तदा देहन्तु वाराहं सत्त्वहीनं व्यजायत ॥ ब्रह्माद्यास्त्रिदशाः सर्व्वे महादेवमुमापतिम् । अनुजग्मुस्तथा तेज आधातुं स्मरनाशने ॥ ततः सर्व्वैर्देवगणैः स्वं स्वं तेजो वृषध्वजे । आदधे तेन बलवान् सोऽतीव समजायत ॥ ततः शरभरूपी स तत्क्षणाद्गिरिशोऽभवत् । ऊर्द्धाधोभावतश्चाष्टपादयुक्तः सुभैरवः ॥ द्विलक्षयोजनोच्छ्रायः सार्द्धलक्षैकविस्तृतः ॥ ऊर्द्धं वराहकायस्तु लक्षयोजनविस्तृतः ॥ लक्षार्द्धविस्तृतः पार्श्वे वर्द्धमानस्तदाभवत् । तमायान्तं ततो दृष्ट्वा क्रोधाद्धावन्तमञ्जसा ॥ मुवृत्तः कनको घोर आसेदुः क्रोधमूर्च्छिताः । उच्चिक्षिपुस्तं युगपत् पोत्रघातैर्महाबलाः ॥ ततस्तुण्डप्रहारेण शरभः कण्ठमध्यतः । भित्त्वा वपुर्वराहस्य पातयाभास तज्जले ॥ तं पातयित्वा प्रथमं सुवृत्तं कनकं तथा । घोरञ्च कण्ठदेशेषु भित्त्वा भित्त्वा जघान ह ॥ त्यक्तप्राणास्तु ते सर्व्वे पेतुस्तोये महार्णवे । जलशब्दं वितन्वानाः कालानलसमर्च्चिषः ॥ पतितेषु वराहेषु ब्रह्मा विष्णुर्हरस्तथा । सृष्ट्यर्थं चिन्तयामासुः पुनरेव समागताः ॥” इति कालिकापुराणीयाष्टाविंशत्यूनत्रिंशाध्या- यात् सङ्कलितः ॥ * ॥
विष्णुः । मानभेदः । पर्व्वतभेदः । मुस्ता । इति मेदिनी । हे, २२ ॥ (पर्व्वतार्थे उदाहरणम् । यथा, महाभारते । २ । २१ । २ । “वैहारो विपुलः शैलो वराहो वृषभस्तथा । तथा ऋषिगिरिस्तात शुभाश्चैत्यकपञ्चमाः ॥”)
शिशुमारः । वाराहीकन्दः । इति राज- निर्घण्टः ॥ अष्टादशद्बीपान्तर्गतक्षुद्रद्वीपविशेषः । यथा, —
“गन्धर्ष्वो वरुणः सौम्यो वराहः कङ्क एव च । कुमुदश्च कसेरुश्च नागो भद्रारकस्तथा ॥ चन्द्रेन्द्रमलयाः शङ्खयवाङ्गकगभस्तिमान् । ताम्राकुश्च कुमारी च तत्र द्वीपाः दशाष्टभिः ॥” इति शब्दमाला ॥ (कृष्णपिण्डीरः । तत्पर्य्यायो यथा, —
“वराहः कृष्णपिण्डीरः कृष्णपिण्डीतकस्तु सः ॥” इति वैद्यकरत्नमालायाम् ॥)