संस्कृत-शब्दकोशः

वर्कराट वर्गप्रकृति

वर्ग

वाचस्पत्यम्

वर्ग ||‍ पु० वृज—घञ् । १ सजातीयसमूहे अमरः । यथा मनुष्य- वर्गः पशुवर्गः । समानधर्मिभिः प्राण्यप्राणिभिः कृते २ संघे च यथा कवर्गः चवर्गः । अत्र कत्वलत्वादिना विजातीयत्वेऽपि स्थानसाम्यमस्ति । ३ ग्रन्थपरिच्छेदे यथा स्वर्गवर्गः पातालवर्गः । ४ अङ्कशास्त्रोक्ते समानाङ्कद्वयस्य परम्परगुणने यथा द्विकस्य चत्वारि, त्रिकस्य नव, चतु- ष्कस्य षोडश इत्यादि । “स्थाप्योऽन्त्यवर्गः” “वर्गं मूलं पदं कृतिम्” इति च लीला० । वृज—घञ् । ५ त्यागे । ग्रन्थ परिच्छेदाश्च बहुविधाः यथा “सर्गोवर्गपलिच्छेदोद्घाता- ध्यायाङ्कसंग्रहाः । उच्छ्वासः परिवर्त्तश्च पटलः काण्ड- मस्त्रियाम् । स्थानं प्रकरणं पर्वाह्णिकञ्च ग्रन्थसन्धयः” त्रिका० ।


शब्दकल्पद्रुमः

वर्गः || पुं, (वृज्यते इति । वृजी वर्ज्जने + घञ् ।)
स्वजातीयसमूहः । (यथा, रघुः । २ । ४ । “व्रताय तेनानुचरेण धेनो- र्न्यषेधि शेषोऽप्यनुयायिवर्गः ॥”)
समानधर्म्मिभिः प्राणिभिरप्राणिभिरुपलक्षितं वृन्दम् । यथा कवर्गः । अत्र कत्वखत्वादिना विजातीयत्वेऽपि स्थानसाम्यमस्ति । इत्यमर- भरतौ ॥ ग्रन्थपरिच्छेदः । यथा, —
“सर्गो वर्गपरिच्छेदोद्घाताध्यायाङ्कसंग्रहाः । उच्छ्वासः परिवर्त्तश्च पटलः काण्डमस्त्रियाम् । स्थानं प्रकरणं पर्व्वाह्रिकञ्च ग्रन्थसन्धयः ॥” इति त्रिकाण्डशेषः ॥ समानाङ्कद्वयस्य पूरणम् । तत्पर्य्यायः । कृतिः २ । वर्गे करणसूत्रं वृत्तद्वयम् । “समद्विघातः कृतिरुच्यतेऽथ स्थाप्योऽन्त्यवर्गो द्विगुणान्त्यनिघ्नः । स्वस्वोपरिष्टाच्च तथापरेऽङ्का- स्त्यक्त्वान्त्यमुत्सार्य्य पुनश्च राशिम् ॥ खण्डद्वयस्याभिहतिर्द्विनिघ्नी तत्खण्डवर्गैक्ययुता कृतिर्व्वा । इष्टोनयुग्राशिवधःकृति स्या- दिष्टस्य वर्गेण समन्वितो वा ॥” * ॥
अत्रोद्देशकः । “सखे नवानाञ्च चतुर्द्दशानां ब्रूहि त्रिहीनस्य शतत्रयस्य । पञ्चोत्तरस्याप्ययुतस्य वर्गं जानासि चेद्वर्गविधानमार्गम् ॥” न्यामः ९ । १४ । २९७ । १०००५ । एषां यथोक्तकरणेन जाता वर्गाः ८१ । १९६ । ८८२०९ । १००१०००२५ ॥ अथवा नवानां खण्डे ४ । ५ । अनयोराहतिः २० । द्बिनिघ्नी ४० । तत्खण्डवर्गैक्येन ४१ । युता जाता सैव कृति ८१ ॥ अथवा चतुर्द्दशानां खण्डे ६ । ८ । अनयोराहतिः ४८ । द्बिनिघ्नी ९६ । तत्खण्ड- वर्गौ ३६ । ६४ । अनयोरैक्येन १०० । युता जाता सैव कृतिः १९६ ॥ अथवा खण्डे ४ । १० । तथापि सैव कृतिः १९६ ॥ अथवा राशिः २९७ ॥ अयं त्रिभिरूनः पृथग्युतश्च २९४ । ३०० । अनयोर्घातः ८८२०० । त्रिवर्ग ९ युतो जातो वर्गः स एव ८८२०९ ॥ एवं सर्व्वत्रापि इति लीलावत्यां वर्गः ॥ (स्त्री, अप्सरोविशेषः । यथा, महाभारते । १ । २१७ । १५ । “अप्सरास्मि महाबाहो देवारण्यविहारिणी । इष्टा धनपतेर्नित्यं वर्गा नाम महावल ॥” मुनिशापात्ग्राहरूपिणीयं अर्ज्जुनात् शाप- मुक्तासीत् । एतद्वृत्तान्तन्तु तत्रैव द्रष्टव्यम् ॥)



Correction: