वाचस्पत्यम्
वर्त्तन || न० वृत—ल्युट् । १ वृत्तौ २ स्थितौ अमरः । णिच्- भावे ल्युट् । २ स्थापने णिच् करणे ल्युट् । ३ जीवनो- पाये स्त्री ङीप् । ४ तक्रुवीठे न० मेदि० । ल्यु । ६ वृत्ति- मति वर्त्तिष्णौ च त्रि० अमरः । ७ बामने त्रि० मेदि० । ८ साधारणवर्तुले न० शब्दर० ।
शब्दकल्पद्रुमः
वर्त्तनं || क्ली (वर्त्ततेऽनेनेति । वृत् + करणे ल्युट् ।)
वृत्तिः । इत्यमरः । २ । ९ । १ ॥ (यथा, भाग- वते । ७ । ११ । २६ । “सम्मार्ज्जनोपलेपाभ्यां गृहमण्डनवर्त्तनैः । स्वयञ्च मण्डिता नित्यं परिमृष्टपरिच्छदा ॥”)
साधारणवर्त्तुलम् । इति शब्दरत्नावली ॥
शब्दकल्पद्रुमः
वर्त्तनं || क्ली स्त्री, (वर्त्ततेऽनेनेति । वृत् + ल्युट् ।)
तूलनाला । तर्कुपीठः । जीवनम् । इति मेदिनी । ने, १२६ ॥ (यथा, मार्कण्डेये । ५० । ७१ । “देवतापितृमर्त्त्यानामतिथीनाञ्च वर्त्तनम् । यस्यावशिष्टेनान्नेन पुंसस्तस्य गृहं त्यज ॥”)
शब्दकल्पद्रुमः
वर्त्तनः || पुं, (वर्त्तते इति । वृत् + “अनुदात्तेतश्च हलादेः ।” ३ । २ । १४९ । इति युच् ।)
वामनः । इति मेदिनी । ने, १२५ ॥ वर्त्तिष्णौ, त्रि । इत्यमरः । ३ । १ । २९ ॥ (यथा, भाग- वते । ३ । ११ । २६ । “एष दैनन्दिनः सर्गो ब्राह्मस्त्रैलोक्यवर्त्तनः । तिर्य्यङ्नृपितृदेवानां सम्भवो यत्र कर्म्मभिः ॥”)