वाचस्पत्यम्
वर्त्ती is an alternate of वर्त्ति. वर्त्ति(र्त्ती) || स्त्री वृत—इन् वा ङीप् । १ लेखे २ नयनाञ्जने ३ गात्रानुलेपने ४ दीपदशायां ५ भिषजां निर्मेयौषधभेदे (वाति) “कतकस्य फलं शङ्खः सैन्धवं त्र्यूषणं वचा । केणो रसाञ्जनं क्षौद्रं विडङ्गानि मनःशिला । एषां वर्त्तिर्हन्ति कार्च तिमिरं पटलं तथा” गरुडपु० १९८ अ० । ६ दीपे च मेदि० ।
शब्दकल्पद्रुमः
वर्त्ती || स्त्री (वर्त्ति + कृदिकारादिति ङीष् ।)
वर्त्तिः । इत्यमरटीका ॥ (यथा, महाभारते । ४ । २१ । २३ । “आसीदभ्यधिका चास्य श्रीः श्रियं प्रमु- मुक्षतः । निर्व्वाणकाले दीपस्य वर्त्तीमिव दिधक्षतः ॥”)