संस्कृत-शब्दकोशः

वर्ती वर्तुला

वर्तुल

वाचस्पत्यम्

वर्त्तुल ||‍ त्रि० वृत—उलच् । १ गोलाकारे पदार्थे अमरः । २ मृञ्जने न० राजनि० । ३ कलायभेदे पु० शब्दमा० । ४ तर्कुपीठ्याम् स्त्री हारा० ५ गजपिष्पल्याम् स्त्री राजनि० ङीप् ।


शब्दकल्पद्रुमः

वर्त्तुलं || क्ली गृञ्जनम् । इति राजनिर्घण्टः ॥


शब्दकल्पद्रुमः

वर्त्तुलं || त्रि (वर्त्तते इति । वृत् + बाहुलकात् उलच् ।)
गोलवस्तु । तत्पर्य्यायः । निस्त- लम् २ वृत्तम् ३ । इत्यमरः । ३ । १ । ६९ ॥ मण्डलायितम् ४ । इति शब्दरत्नावली ॥ * ॥
(यथा, भागवते । ५ । १६ । ५ । “यो वा अयं द्वीपः कुवलयकमलकोशाभ्यन्तर- नियुतयोजनविशालः समवर्त्तुलो यथा पुष्कर- पत्रम् ॥”)
सम्पूर्णगर्भवृत्तानि यथा, —
“सम्पूर्णगर्भवृत्तानि मुखपद्मेन्दुदर्पणाः । चक्रावहट्टतिलकमृदङ्गपुटशायकाः ॥ आवर्त्तः कमठो लूतागृहं छत्रमपूपकम् । आलबालमहीजालचर्म्मकं शाणकादयः ॥” * ॥
वृत्तानि यथा, —
“वृत्तानि बाहुनारङ्गस्कन्धधम्मिल्लमोदकाः । रथाङ्गलावकककुत्कुम्भिकुम्भाण्डकादयः ॥ कर्णपाशभुजापाशाकृष्टचापघटाननम् । मुद्रिकापरिखायोगपट्टहारस्रगादयः ॥” इति कविकल्पलतायाम् २ श्लेषस्तवके ३ कुसु- मम् ॥


शब्दकल्पद्रुमः

वर्त्तुलः || पुं, कलायविशेषः । वाटुला । इति भाषा । यथा, —
“कलायस्य त्रयो भेदा स्त्रिपुटो वर्त्तुलोऽङ्कटी ।” इति शब्दमाला ॥



Correction: