वाचस्पत्यम्
वर्ध्र || न० वृध—ष्ट्रन् । १ चर्मणि उणादिको० । २ चर्मरज्जौ स्त्री भरतः ङीष् ।
शब्दकल्पद्रुमः
वर्द्ध्रं || क्ली (वर्द्धते दीर्घीभवतीति । वृध् + “वृधि- वपिभ्यां रन् ।” उणा० २ । २७ । इति रन् ।)
चर्म्म । इत्युणादिकोषः ॥ (यथा, अथर्व्ववेदे । १४ । १ । ६० । “त्वष्टा पिपेश मध्यतोऽनुवद्ध्रान्त्स्या नो अस्तु सुमङ्गली ॥”)