संस्कृत-शब्दकोशः

वर्मकषा वर्महर

वर्मन्

वाचस्पत्यम्

वर्म्मन् ||‍ न० वृ—मनिन् । १ कवचे सन्नाहे अमरः । २ क्षत्रि- योपाधौ पु० । “वर्म्मान्तं । क्षत्रियस्य तु” शातातपः ।


शब्दकल्पद्रुमः

वर्म्म || [न्] क्ली, (वृणोति आच्छादयति शरीर- मिति । वृ + मनिन् ।)
तनुत्रम् । इत्यमरः । २ । ८ । ६४ ॥ (यथा, रघुः । ४ । ५६ । “अभ्षभूयत वाहानां चरतां गात्रशिञ्जितैः । वर्म्मभिः पवनोद्धूतराजतालीवनध्वनिः ॥” गृहम् । इति निघण्टुः । ३ । ४ ॥ यथा, बृहत्- संहितायाम् । ५१ । ३ । “छिन्नभिन्नकृमिखातकण्टकि- प्लुष्टरूक्षकुटिलैर्न सत्कुजैः । क्ररपक्षियुतनिन्द्यनामभिः शुष्कशीर्णबहुपर्णवर्म्मभिः ॥”)


शब्दकल्पद्रुमः

वर्म्मा || [न्] पुं, (वृ + मनिन् ।)
क्षयिस्य पद्धतिः । यथा, —
“शर्म्मान्तं ब्राह्मणस्य स्याद्वर्म्मान्तं क्षत्त्रियस्य च । गुप्तदासान्तकं नाम प्रशस्तं वैश्यशूद्रयोः ॥” इति श्राद्धत त्त्वधृतशातातपवचनम् ॥



Correction: