वाचस्पत्यम्
वर्य्य || त्रि० वृ—यत् । १ प्रधाने श्रेष्ठे च अमरः । २ कामदेक्षे ३ पतिम्बरायां कन्यायां अमरः । ४ कन्यामात्रे च स्त्री ।
शब्दकल्पद्रुमः
वर्य्यं || त्रि (वर्य्यते प्रार्थ्यते इति । वरत् क ईप्सायाम् + “अचो यत् ।” ३ । १ । ९७ । इति यत् ।)
प्रधानम् । इत्यमरः । ३ । १ । ५७ । (यथा, भागवते । १ । ५ । ९ । “यथा धर्म्मादयश्चार्था मुनिवर्य्यावुकीर्त्तिताः । न तथा वासुदेवस्य महिमा ह्यनुवर्णितः ॥”)
श्रेष्ठम् । इति मुग्धबोधव्याकरणम् ॥ (यथा, किराते । ७ । २० । “माहेन्द्रं नगमभितः करेणुवर्य्याः पर्य्यन्तस्थितजलदा दिवः पतन्तः ॥”)
शब्दकल्पद्रुमः
वर्य्यः || पुं, (वर्य्यते प्रार्थ्यते इति । वर + यत् ।)
कामदेवः । इति मेदिनी । ये, ४० ॥